2023-03-20 00:00:43 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
रावणः--(धैर्यमवलम्ब्य )
मतिर्विपश्चितां मन्त्री रतिर्मन्त्री विलासिनाम् ।
पराक्रमैकसाराणां मानिनां त्वसिवल्लरी १३
अथ महोदरो नाम मंत्री--
राजन्मुखसुखा वाचो मधुराः कस्य न प्रियाः
तव क्षोदक्षमाः किन्तु नैता व्यसनसंगमे १४
प्रिया वा मधुरा वाक् च हर्म्येष्वेव विराजते
श्रीरक्षणे प्रमाणन्तु वाचः सुनयकर्कशाः १५
विभवे भोजने दाने तिष्ठन्ति प्रियवादिनः
विपत्तौ चागतेऽन्यत्र दृश्यन्ते खलु साधवः १६
अग्रे प्रस्तुतनाशानां मूकता परमो गुणः ।
तथापि प्रभुभक्तानां मौखर्यादिदमुच्यते १७
यैरेव स्तुतिभिः स्वामी प्राप्यते व्यसनाटवीम्
पश्चान्मूकत्वमापन्नैरुद्धर्तुं शक्यते कथम् १८
नद्यश्च खलमैत्री च लक्ष्मीश्च नियतिर्द्विषाम्
सुकुमाराश्च वनिता राजन्नस्थिरयौवनाः १६
दत्तोत्साहैरकार्येऽपि चित्तग्रहणकोविदैः ।
सत्यं विदग्धैर्भुज्यन्ते नृपाः कर्णान्तषट्पदैः २०
पद्मिनी कान्तिमापेदे संकोचं च कुमुद्वती
न भवन्ति चिरं प्रायः सम्पदो विपदोऽपि वा २१
तथा च--
सुरेज्यादिभिराचार्यैर्नीतिशास्त्रं त्रिधा मतम्
ऐहिकं चामुष्मिकाव्यमैहिकामुष्मिकं तथा २२
ऐहिकामुष्मिकं तत्र शास्त्राणामुत्तमोत्तमम्
आमुष्मिकं तूत्तमं स्यादैहिकं चाधमाधमम् २३
यज्ज्ञानात्स्वामिनं हत्वा भजन्ते मंत्रिणः प्रियम् ।
60