2023-03-20 00:00:32 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
यः ससोम इव घर्मदीधितिः सद्विजिह्न इव चन्दनद्रुमः ३०
आजन्म ब्रह्मचारी
पृथुलभुजशिलास्तम्भविभ्राजमान-
ज्याघातश्रेणिसंज्ञान्तरितवसुमतीचक्रजैत्रप्रशस्तिः ।
वक्षः पीठे घनास्त्रव्रणकिणकठिने संक्ष्णुवानः पृषत्का-
न्प्राप्तो राजन्यगोष्ठीवनगजमृगयाकौतुकी जामदग्न्यः ३१
सोऽयं सप्तसमुद्रमुद्रितमहीपस्यार्जुनस्योद्धतं
छित्त्वा भैरवसंगरेऽतिजरठं कण्ठं कुठारेण यः ।
रेवातीरनिरोधहेतुगहनं बाहोः सहस्रं जवा-
त्काण्डं काण्डमरखण्डयत्पितृवधामर्षेण वर्षीयसा ३२
पुनः परशुं दृष्ट्वा --
येन त्रिः सप्तकृत्वो नृपबहलवसामांसमस्तिष्कपंक-
प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरेऽभिषेकः ।
यस्य स्त्रीबालवृद्धावधि निधनविधौ निर्दयो विश्रुतोऽसौ
राजन्योच्चांसकूटक्रथनपटुरटद्धोरधारः कुठारः ३३
जामदग्न्यः क्रोधं नाटयित्वा--
केनेदं कुपितकालदन्तपत्रान्तरालमिच्छता धनुर्भग्नम् ।
राम साशङ्कम्--
पार्वत्या निजभर्तुरायुधमिति म्लानं यदभ्यर्चितं
निर्मोकेन च वासुकेन वलितं यत्सादरं नन्दिना ।
भव्यं यत्त्रिपुरेन्धनं धनुरिदं तन्मन्मथोन्माथिनः
सत्येवं मयि रामनामनि भुवि द्वेधा कृतं दृश्यते ३४
जामदग्न्यः--( स्फीतफूत्कारप्रफुल्लनासापुटकोटरोद्गीर्णप्रभूत-
गर्वानलोच्छलितकालकूटधूमस्तोमाच्छादितदिमण्डलः )
अरे रे निजकुलकमलिनीप्रालेयवर्ष दाशरथे कथमकाण्ड-
मदान्तप्रचण्डदोर्दण्डकोदण्डखण्डचण्डिमाडम्बरेणापूरितं-
जगत्त्रयम् । सकलवसुमतीमण्डलाखण्डलकुमुंदिनीपक्षलक्ष्मी-
6