This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[Hanuman Nātakam]
 
एकः सुग्रीवभृत्यः कपिरखिलवनं पत्तनं चापि दग्ध्वा
यातस्तूष्णीं तदानीं दशमुख भवतः किं कृतं वीरवर्गैः ॥
प्राप्तोऽसौ पत्तनांतं सकलकपिबलैर्वार्धिमुल्लङ्घ्य योद्धुं
त्वं सीतां मुंचमुंचेत्यनिशमकथयत्प्रेयसी रावणस्य ७
(मन्दोदरीकथनेन किंचित्सभयो रावणः )
शुकं च सारणं वीरं दूतं प्रस्थाप्य रावणः ।
रामदेवस्य शिबिरं मंत्रं चक्रेऽथ मंत्रिभिः ८
 
तत्र विरूपाक्षनामा मन्त्री -- ( सहितम् )
देव त्वां प्रति संप्रति प्रतिभटप्रोल्लासनं नो मुदे
देवायं प्रतिपद्यते हितमिदं यस्माद्वयं मंत्रिणः ।
सीतारक्षणदक्षलक्ष्मणधनुर्लेखापि नोल्लंघिता
हेलोल्लंघितवारिधिः कपिकुलैः सार्धं स रामो महान् ६
यावद्दाशरथेर्न पश्यसि मुखं यावन्न पाथोनिधिं
 
बद्धं यावदिमां न पावकवशां लंकां निरस्तालकाम् ।
यावन्नैव निजानुजं सुचरितं यातं कुलाङ्गारतां
 
तावद्रावण लोकपाल तरसा सीतां प्रयच्छानघाम् १०
रावणः -- (साश्चर्यम्)
 
एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूहराः
सोहं सर्वजगत्पराभवकरो लंकेश्वरो रावणः ।
 
सेतुं बद्धमिमं शृणोमि कपिभिः पश्यामि लंकां वृतां
जीवद्भिर्नहि दृश्यते किमथवा किं वा न वा श्रूयते ११
विरूपाक्षः--राजन्विषादं मागाः पश्य--
आज्ञा शक्रशिरोमणिप्रणयिनी शस्त्रग्रहाणामपि
भक्तिर्भूतपतौ पिनाकिनि पदं लंकेति दिव्या पुरी ।
संभूतिद्रुहिणान्वये च तदहो नेदृग्वराँल्लभ्यते
स्याच्चेदेष न रावणः क्व नु पुनस्त्वेकत्र सर्वे गुणाः १२
 
59