This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
लंकायां कृतवानयं हि विकृतिं दग्धाग्रपुच्छः पुरा
कोप्येष प्रतिभाति वालिसदृशो नूनं तदीयः सुतः ।
श्यामः कामसमाकृतिः शरधनुर्धारी स सीताप्रियः
प्रत्येकं रिपुमीक्षतीति निगदन्मंचस्थितो रावणः २
तत्रो मन्दोदरी--
दृष्ट्वा राघवमेव
 
राक्षसवनस्वच्छन्ददावानलं
 
जानक्यां निजवल्लभस्य परमं प्रेमाणमालोक्य च ।
कांक्षन्ती मुहुरात्मपक्षविजयं भंगं च मुग्धा मुहु-
र्धावन्ती मुहुरन्तरालपतिता मन्दोदरी सुन्दरी ३
वन्दारुवृन्दारकवृन्दवन्दिमन्दारमालामकरन्दबिन्दून्
मन्दोदरीयं चरणारविन्दरेणत्करान्कर्करतामनैषीत् ४
मन्दोदरी अञ्जलिं बद्ध्वा रावणं वैरिविद्रावणं विज्ञापयति-- देव
 
त्वं बाहूद्धतचन्द्रशेखरगिरिभ्रता जगद्भक्षकः
पुत्रः शक्रजयीत्यवेत्य रणधिर्नूनं बली वालिजित् ।
तद्राजन्नबला बलादपहृता देयास्य सा जानकी
लंकायां रहसीत्युवाचं वचनं मन्दोदरी मन्दिरे ५
रावणः--(निजभुजाडम्बरं नाटयति)
 
किं ते भीरु भिया निशाचरपतेर्नासौ रिपुर्मे महान्
यस्याग्रे समरोद्यतस्य न सुरास्तिष्ठन्ति शक्रादयः ।
मद्दोर्दण्डकमंडलोद्धृतधनुः क्षिप्ताः क्षणान्मार्गणाः
प्राणानस्य तपस्विनः सति रणे नेष्यंति पश्याधुना ६
मन्दोदरी--(सभयं रावणोदितपद्यार्थमपश्यन्ती भाविना
द्वितीयं पद्यार्थमवगम्य) अहो प्राणनाथ ! लंकेश्वर !
किमिति स्वकपोलकल्पितैरमंगलालापैरात्मनो वधं
मन्यसे ? शान्तं पापं प्रतिहतममंगलमिति वैचित्र्यमुत्पाद्य ।
 
58