2023-03-20 00:00:42 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
भीत्या मन्दशिखोदयोऽपि दहनस्तैरेव तत्र क्षणं
प्राणाद्यैश्च दिदृक्षया तनुतनुश्वासानिलैर्दीपितः ५५
अंगदः--(सावज्ञम् )
[Hanuman Nātakam]
आास्तां मस्तकहोमविक्रमकथा पौलस्त्य विस्तारिणी
देहं किं न निपातयन्ति दहने वैधव्यभीताः स्त्रियः ।
कैलासोद्धरणेन भारवहनप्रौढिस्त्वयाविष्कृता
तूर्णं वर्णय किं च किंचिदपरं यत्पौरुषस्यास्पदम् ५६
दोर्दण्डाहितपौत्रभिक्षुरभवद्यस्मिन्पुलस्त्यो मुनि-
स्तद्वाहोर्वनमच्छिनत्परशुना यो राजबीजान्तकः ।
शौर्यं शौर्यरसाम्बुधेर्भृगुपतेर्ग्रासोऽपि नासीज्जलं
तत्तेजो वडवानलस्य किमसौ लंकापतिः पल्वलम् ५७
रे रे राक्षसराज मुंच सहसा देवीमिमां मैथिलीं
मिथ्या किं निजपौरुषस्य घटनाप्रागल्भ्यमारभ्यते ।
एनां पश्यसि किं न किन्नरगणैरुद्गीतदोर्विक्रमां
सेनां वानरभर्तुरुद्भटभुजस्तम्भाग्न्यभीमां पुरः ५८
इति लंकाभटमुत्कटवाक्यैरधिक्षिप्य लंकामातंकयन्नंगदो
निष्क्रान्तः ॥
इति श्रीहनुमन्नाटकेऽङ्गदीधिक्षेपणं नामाष्ठमोऽङ्कः ८
अथ नवमोऽङ्कः
अथ निजप्रतापप्रचण्डसमरोत्साहपरिपूर्णस्य लंकापतेः
श्रुत्वा दाशरथिः सुवेलकटके साटोपमर्धे धनु-
ष्टंकारैः परिपूरयन्ति ककुभः प्रोच्छन्ति कौक्षेपकान् ।
अभ्यस्यन्ति तथैव चित्रफलकैर्लंकापतेस्तत्पुन-
र्वैदेहीकुचपत्रवल्लिरचनावैधग्ध्यमर्धे कराः १
(ततो निजराजमन्दिरशिखरस्थमञ्चमारुह्य )
57