2023-03-20 00:00:41 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
देवाः सन्तु हविर्भुजः परिभवं मा यातु लंकापुरी ।
नोचेद्वानरवाहिनीपतिमहाचञ्चच्चपेंटोंत्तरै-
स्तत्तन्मुष्टिभिरंगसंगरगतस्तत्तत्फलं लप्स्यसे ४६
दृष्टः किं रघुनन्दनो नहि पुरा किं च त्वया न श्रुतोऽ-
रण्ये किं न विलम्बितोसि न पुनर्मार्गे स्थितोसि क्षणम्
तल्लंकेश्वर मुंच मानमखिलं श्रुत्वा वधं वालिनः
सीतामर्पय रक्ष राक्षसकुलं दासत्वमङ्गीकुरु ५०
(क्षेपकः ) रावणः --
मरुत्वद्दम्भोलिक्षणघटितघोरश्वयथुना
निसर्गोदग्रेण प्रसभमुरसा पीतगगनः ।
श्रियं देवद्रीचीं निजभुजवनोद्दामकरिणी-
मयं कुर्वन्वीरः स्मरसि कथमासीद्दशमुखः ५१
आस्कन्धादपि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना
छेत्तुं प्रक्रमिते मयैव झटिति त्रुट्यच्छिरः सन्ततौ ।
अस्मेरं गलिताश्रुगद्गदवचो भग्नभ्रु वा यद्यभू -
द्वक्त्रेष्वेवमपि स्वयं स भगवाँस्तन्मे प्रमाणं शिवः ५२
येऽहंपूर्विकया प्रहारमभजन्मां छिन्धि मां छिन्धि मां
छिन्धीत्युक्तिपराः पुरारिपुरतो लङ्कापतेर्मौलयः ।
ते भूमौ पतिताः पुनर्नवभवानालोक्य मूर्ध्नाऽपरा-
न्याचिष्यन्त इमे हि नो वयमिति प्रीत्याट्टहासं व्यधुः ५३
मूले पंच ततश्चतुष्टयमिति स्रक्सन्निवेशैः शिरः-
पुष्पैरन्यतमावलोकनमितैरुच्छ्रोणितैरञ्चति ।
हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमालोकय-
ञ्छम्भोरद्भुतसाहसैकरसिकः कैर्न स्तुतो रावणः ५४
लंकेन्द्रः समधीरवीरपदवीरम्यो न गम्यो गिरां
तस्मिञ्जुह्वति चन्द्रहासशकलान्मौलीन् पुरारेः पुरः ।
56