2023-03-20 00:00:41 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
[Hanuman Nātakam]
शंकामंकुरयन्ति शंकरगिरेरद्यापि धातुद्रवाः ४२
स्वेषूत्कृत्य हुतेषु मूर्धसु जवादग्नेः स्फुटित्वा बहि-
र्व्याकीर्णेष्वलिकेषु दैवलिखितं दृष्टापि रामार्पणम् ।
चित्तेनास्खलितेन यस्तदधिकं ब्रह्माणमप्रीणय-
त्तस्मै कः प्रथमाय मानिषु महावीराय वैरायते ४३
वीरोसौ किमु वर्ण्यते दशमुखश्छिन्नैः शिरोभिः स्वयं
यः पूजार्थसमुत्सुको घटयितुं देवस्य खट्वाङ्गिनः ।
सूत्रार्थी हरकण्ठसूत्रभुजगव्याकर्षणायोद्यतः
साटोपं प्रमथैः कृतं भ्रुकुटिभिः स्थित्वान्तरे वारितः ४४
(अत्रान्तरे प्रविश्य ) प्रतीहारः--
ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां
स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वज्रिणः ।
स्तोत्रं संहर नारद स्तुतिकथालापैरलं तुम्बुरो ।
सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लंकेश्वरः ४५
अंगदः--(क्रोधं नाटयति)
स्फूर्जद्दिव्यास्त्रबाहुव्यतिकरविगलत्कंधरैस्तैः शिरोभि-
र्देवो रामः करिष्यत्युचितबलिमयं भूतसंघातशास्ता ।
हन्यात्किं नांगदस्त्वामतिपरुषरुषा तातकक्षावशिष्टः
प्रोद्धृत्योद्धृत्यपादप्रहतबहुशिरः कन्दुकैः क्रीडितोऽस्मि ४६
अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तरः
तिमङ्गिलगिलोऽप्यस्ति तद्गिलोप्यस्ति राघवः ४७
मूर्ध्नामुद्धृत्य कृत्ता विरलगलगलद्रक्तसंभूतधारा-
धौतेशांघ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम्
कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां
दोष्णां चैषामिदं ते फलमिह नगरीरक्षणे यत्प्रयासः ४८
सीतां मुंच भजस्व रामचरणं राज्यं चिराद्भुज्यतां
55