2023-03-20 00:00:41 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
यन्मां त्वं वदसि प्रचूर्णितबलान्हेमाक्षदैत्येश्वरा-
ञ्छेषस्याप्यथवा हिरण्यकशिपोर्भस्माङ्गदस्याङ्गद ।
अन्येषाममरद्विषां बलकथा मद्बाहुसारादलं
रामश्चेद्रिपुहा प्रियापहरणे संधिं विधत्ते कथम् ३७
अङ्गदः--
शिरोभिर्मा देवीः शिव इव न ते दास्यति पुनः
प्रबन्धं पश्याब्धेः सरस इव कैलाससुभट ।
हितं तु ब्रूमस्त्वां मम जनकदोर्दण्डविजय-
स्फुरत्कीर्तिस्तम्भस्त्यज कमलबन्धोः कुलवधूम् ३८
रावणः
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
कस्त्वं वालितनूद्भवो रघुपतेर्दूतः स वालीति कः
को वा वानर राघवः समुचिता ते वालिनो विस्मृतिः ।
त्वाम्बद्ध्वा चतुरम्बुराशिषु परिभ्राम्यन् मुहूर्तेन यः
सन्ध्यामर्चयति स्म निस्त्रप कथं तातस्त्वया विस्मृतः ३६
त्वद्दोर्दण्डप्रचण्डप्रतिहननविधिप्रौढबाह्वोः सहस्र-
च्छेदक्रीडाप्रवीणस्थिरपरशुमहागर्वनिर्वापकस्य ।
दूतोऽहं राघवस्य त्वदपघनघृणावासवालाग्रलोम्नः
पुत्रः सुत्रामसूनोः प्लवगबलपतेर्नामतश्चांगदोऽहम् ४०
रावणः
यद्भग्नाः किल बालतालतरवो रामेण सार्द्रत्वच-
श्छिन्नं यच्च पुरातनं शिवधनुस्तद्वीर्य्यमुद्दिश्यते ।
नासीदेतदनागतं श्रुतिपथं स्वर्लोकधूमध्वजः
पौलस्त्यः करकन्दुकीकृतहरक्रीडाचलो रावणः ४१
शूराः श्रोत्रपथेषु नः कति कति प्राञ्चः पदं चक्रिरे
तेषामेव विलंघ्य साम्यसरणिं जागर्ति लंकाभटः ।
यद्दोर्मण्डलगाढपीडनवशान्निस्पन्दरक्तच्छटाः
54
--