2023-03-20 00:00:41 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
अंगदः --
रे रे रावण रावणाः कति बहूनेतान्वयं शुश्रुमः
प्रागेकं किल कार्त्तवीर्यनृपतेर्दोर्दण्डपिण्डीकृतम् ।
एकं नर्तनदापितान्नकबलं दैत्येन्द्रदासीगणे -
रन्यं वक्तुमपि त्रपामह इति त्वं तेषु कोऽन्योऽथवा ३२
रावणः
भ्राता मे कुम्भकर्णः सकलरिपुकुलव्रातसंहारमूर्तिः
पुत्रो मे मेघनादः प्रहसितवदनो येन बद्धः सुरेन्द्रः ।
खड्गो मे चन्द्रहासो रणमुखचपलो राक्षसा मे सहायाः
सोऽहं वै देवशत्रुस्त्रिभुवनविजयी रावणो नाम राजा ३३
प्रहस्तः सरोषम्--
स्यातां नाम कपीन्द्रहैहयपती तस्यावगाढान्तर-
स्थेमानौ दशकन्धरस्य महती स्कन्धप्रतिष्ठा पुनः ।
सद्यः पाटितकण्टकीकसकणाकीर्णां यदंसस्थलीं
स्वेनेभाजिनपल्लवेन झटिति प्रास्फोटयद्धृर्जटिः ३४
[Hanuman Nātakam]
रावणः
सर्वैर्यस्य समं समेत्य कठिनां वक्षस्थलीं संयुगे
निर्भग्नं मुखमेव दन्तमुसलैंरैरावतस्योन्नतैः ।
हेलोत्क्षिप्तमहीध्रकम्पजनितत्रासाङ्गनालिङ्गन-
प्राप्तानन्दहरप्रसादमुदितश्चिन्त्यः स मेऽन्यो रिपुः ३५
अङ्गदः--
--
53
रे रे रावण शंभुशैलमथनप्रख्यातवीर्य्यः कथं
रामं योद्धुमिहेच्छसीदमखिलं चेत्तन्न युक्तं तथा ।
रामस्तिष्ठतु लक्ष्मणेन धनुषा रेखा कृता लङ्घिता
तच्चारेण च लंघितो जलनिधिर्दग्धा हतोक्षः पुरी ३६