2023-03-20 00:00:41 by ambuda-bot
This page has not been fully proofread.
[ Hanuman Natakam]
इतिहास
ITIHĀSA
त्संप्राप्तो रामदूतो विसृज जडमते जानकीं वा शिरो वा २५
रावणः
धिग्धिगङ्गद मानेन येन ते निहतः पिता
निर्माना वीरवृत्तिस्ते तस्य दूतत्वमागतः २६
अङ्गदः--
--
--
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
युक्तं कृतं तु रामेण येन मे निहतः पिता
त्रैलोक्ये शास्तिकृत्याय वर्तते स दुरात्मनाम् २७
किं कार्यं वद राघवस्य न च किं बद्धः किमम्भोनिधिः
क्रीडार्थं कपिपोतकैरतरलं जानात्यसौ मां नहि
लङ्कानाकनिकायवैरिवसतिं किं वेत्ति वेत्त्येव हं
को लंकाधिपतिर्बिभीषण इति प्रख्यातकीर्तिर्भुवि २८
रावणः
बद्धः सेतुर्यदि जलनिधौ वानरैस्तावता किं
नो वल्मीकाः क्षितिधरनिभाः किं क्रियन्ते पिपीलैः ।
दग्धा लंका यदपि कपिना स प्रभावः किलाग्नेः
शौर्याश्चर्यं निजभुजजये किं कृतं रामनाम्ना २६
अंगदः --
रामो नाम स एव येन भगिनीनासावसापंकिलः
खड्गस्ते खरदूषणत्रिशिरसां धौतः शिरः शोणितैः ।
तद्वालान्तिनितान्तबद्धवपुषः संमूर्च्छितस्य ध्रुवं
घ्राणं दर्पमिव स्वसुर्विलुठितं रामः कथं विस्मृतः ३०
रावणः
——
परिमितमहिमानं क्षुद्रमेनं समुद्रं
क्षितिधरघटनाभिः कोयमुत्तीर्य गर्व ।
अकलितमहिमानः सन्ति दुष्प्रापपारा
दशवदनभुजास्ते विंशतिः सिन्धुनाथाः ३१
52