2023-03-20 00:00:40 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
[Hanuman Nātakam]
रे रे राक्षसवंशघात समरे नाराचचक्राहतं
रामोत्तुङ्गपतङ्गचापयुगले तेजोभिराडम्बरे ।
मन्ये शैर्षमिदं त्वदीयमखिलं भूमण्डले पातितं
गृध्रेरालुठितं शिवाकवलितं काकैः क्षतं यास्यति २०
रावणः सप्रपञ्चम्--
रेरे शाखामृग ! त्वामहं धर्मशीलतया कटुप्रलापिनमपि न हन्मि
।
उक्तं च-- यथोक्तवादी दूतः स्यान्न स वध्यो महीभुजा ।
क्रूरस्तदीयकोपेन क्वचिद्वैरूप्यमर्हति २१
अङ्गदः सवैदग्ध्यम्--
परदारापहरणे न श्रुता या दशानन ।
दृष्टा दूतपरित्राणे साधोस्ते धर्मशीलता २२
रावणः सगर्वम्--
इन्द्रं माल्यकरं सहस्रकिरणं द्वारि प्रतीहारकं
चन्द्रं छत्रधरं समीरवरुणौ संमार्जयन्तौ गृहान् ।
पाचक्ये परिनिष्ठितं हुतवहं किं मद्दूहे नेक्षसे
रक्षोभक्ष्यमनुष्यमात्रवपुषं तं राघवं स्तौषि किम् २३
अङ्गदो विहस्य--
रे रे रावण हीन दीन कुमते रामोऽपि किं मानुषः
किं गङ्गापि नदी गजः सुरगजोऽप्युच्चैःश्रवाः किं हयः
किं रम्भाप्यबला कृतं किमु युगं कामोऽपि धन्वी नु किं
त्रैलोक्यप्रकटप्रतापविभवः किं रे हनूमान्कपिः २४
रावणः सरोषम्--
कस्त्वं कस्यासि पुत्रः क्व पुनरिह गतः किंनु कृत्यं च कस्मा-
द्विस्पष्टं विष्टपानां विजयिनमपि मां मन्यसे त्वं तृणाय ।
हंहो पौलस्त्यपुत्रस्तव बलमधनस्यांगदोऽहं सुवेला-
51