This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
न्भ्रान्तः सप्ताब्धितीरे क्षणमिव चरितं स्नानसन्ध्यार्चनं च ।
बाणेनैकेन येनाहत इति पतितो वानरव्रीडयैव
 
त्यक्त्वा सोऽपि प्रगर्वं मणिसुतपुरं मुञ्च लंकेश गर्वम् १४
यत्संदेशहरेण मारुतसुतेनातारि वारां निधिः
क्षिपं गोष्पदवन्निजालयमिव प्रावेशि लङ्कापुरी ।
सीतादर्शि समभ्यभाषि च वनं चाभञ्जि रक्षः पतेः
सैन्यं भूर्यवधि व्यदाहि च पुरी रामः कथं वक्ष्यते १५
रावणः सक्रोधम्--
कुतो हन्तारण्ये कनकमृगमात्रं तृणचरं
कुतो वृक्षाद्वृक्षप्लवननिपुणो वालिनिहतः ।
कुतो वह्निज्वालांजटिलशरसन्धानसुदृढ-
स्त्वहं युद्धोद्योगी गगनमधितिष्ठेन्द्रविजयी १६
अङ्गदः समदम्--
संधौ वा विग्रहे वापि मयि दूते दशानन
 
अक्षतो वा क्षतो वापि क्षितिपीठे लुठिष्यसि १७
अवेहि मां रावण रामदूतं बाणा यदीयाः खरदूषणैणम् ।
भुक्त्वा तृषार्ता इव शोणिताम्भः पास्यन्ति ते कण्ठघटैः सरन्धैः
 
१८
 
रावणः -- वानराधम ! कटुप्रलापिन्पश्य--
मृत्युः पादान्तभृत्यस्तपति दिनकरो मन्दमन्दं ममाग्रेऽ-
प्यष्टौ ते लोकपाला मम भयचकिताः पादरेणुं ववन्दुः
दृष्ट्वा तं चन्द्रहासं स्रवति सुरवधूपन्नगीनां च गर्भो ।
निर्लज्जौ तापसौ तौ कथमिह भवतो वानरान्मेलयित्वा १६
 
अंगदः-
तत्क्षणाविष्कृतक्रोधः कम्पमानः पाणितलेन भूतलं ताड-
यित्वा दोः स्तम्भास्फालकेलिं नाटयति--
50
 
--