2023-03-20 00:00:32 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
स्वं चास्फालयति प्रकोष्ठकमिमामुन्मुच्य तासामहो
भिद्यन्ते वलयानि दाशरथिना तद्भग्नमैशं धनुः २४
अपि च--
तद्ब्रह्ममातृवधपातकिमन्मथारि-
।
क्षत्रान्तकारिकरसंगमपापभीत्या
ऐशं धनुर्निजपुरश्चरणाय नूनं
देहं मुमोच रघुनन्दनपाणितीर्थे २५
त्रुट्यद्भीमधनुः कठोरनिनदस्तत्राकरोद्विस्मयं
त्रस्यद्वाजिरवेरमार्गगमनं शंभोः शिरः कम्पनम्
दिग्दन्तिस्खलनं कुलाद्रिचलनं सप्तार्णवोन्मेलनं
वैदेहीमदनं मदान्धदमनं त्रैलोक्यसंमोहनम् २६
रुन्धन्नष्ट विधेः श्रुतीर्मुखरयन्नष्टौ दिशः क्रोड्य-
न्मूर्तीरष्ट महेश्वरस्य दलयन्नष्टौ कुलक्ष्माभृतः ।
तान्यक्ष्णा वधिराणि पन्नगकुलान्यष्टौ च संपादय-
नुन्मीलत्ययमार्यदोर्बलदलत्कोदण्डकोलाहलः २७
लक्ष्मणः--
[Hanuman Nātakam]
गद्यम्--जामदग्न्यस्त्रुट्यद्भैरवधनुः कोलाहलामर्षमूर्च्छितः
प्रलयमारुतोद्भूतकल्पान्तानलवत्प्रदीप्तरोषानलः ।
रामं प्रति परशुरामं सूचयन्--
यद्वभञ्ज जनकात्मजाकृते राघवः पशुपतेर्महद्धनुः
तद्धनुर्गुणरवेण रोषितस्त्वाजगाम जमदग्निजो मुनिः २८
चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो
भस्मस्निग्धपवित्रलाञ्छितमुरो धत्ते त्वचं रौरवीम् ।
मौञ्ज्या मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं
पाणौ कार्मुज्कसाक्षसूत्रवलयं दण्डोऽपरः पैप्पलः २६
पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत्
5