2023-03-20 00:00:40 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
दूराक्रामणदौत्य एव न पुनर्योद्धुं समादिश्यते ८
रावणः सावज्ञम्--
[Hanuman Nātakam]
रामः स्त्रीविरहेण हारितवपुस्तच्चिन्तया लक्ष्मणः
सुग्रीवोऽङ्गदशल्यभेदकतया निर्मूलकूलद्रुमः ।
गण्यः कस्य विभीषणः स च रिपोः कारुण्यदैन्यातिथि-
र्लंकातङ्कविटंकपावकपटुर्वध्यो ममैकः कपिः ६
कस्त्वं वन्यपतेः सुतो वनपतिः कः सार्थिकस्त्वेकदा
यातः सप्तसमुद्रलंघनविधावेकाह्निको वेद्मि तम्
अस्ति स्वस्तिसमन्वितो रघुवरे रुष्टेऽत्र कः स्वस्तिमा-
न्को भूयादनरण्यकस्य मरणातीतोचिताम्बुप्रदः १०
रामः किं कुरुते प्रतीपविजयं कोऽसौ प्रतीपो जितो
वाली सोऽपि च को न वेत्सि किममुं को वेत्ति शाखामृगम् ।
आस्तेऽत्रापि तवास्ति विस्मृतिरहो मोहो महानीदृशः
पर्यङ्के निजबालकेलिकृतये वद्धोऽसि येनोपरि ११
अङ्गदः --
आदौ वानरशावकः समतरद्दुर्लंघ्यमम्भोनिधिं
दुर्भेद्यान्प्रविवेश दैत्यनिवहान्त्संपेष्य लंकापुरीम् ।
क्षिप्त्वा तदूनरक्षिणो जनकजां दत्त्वा तु भुक्त्वा वनं
हत्वाक्षं प्रदहन्पुरीं च स गतो रामः कथं वर्ण्यते १२
रावणः समाक्षिपति--
भग्नं भस्ममुमापतेरजगवं वाली क्षतः सूक्ष्मत-
स्तालाः सप्त हता हताश्च जलधिर्बद्धश्च बद्धश्च सः ।
आः किं तेन सशैलसागरधराधारोरगेन्द्राङ्गदं
साद्रिं रुद्रमुदस्यतो निजभुजाञ्जानात्यसौ रावणः १३
अङ्गदः साटोपं स्वामिभक्तिमभिनीय--
कृत्वा कक्षागतं त्वां कपिकुलतिलको वालिनामा बलीया-
49