2023-03-20 00:00:40 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
रावणः --प्रवेशय ।
ततः प्रविशति प्रहस्तेन सहाङ्गदः ।
आकाशे लक्ष्यं बद्ध्वा ।
रे राक्षसाः कथयत क्व स रावणाख्यो
रत्नं रवीन्दुकुलयोरपहृत्य नष्टः ।
त्रैलोक्यदीपनकरत्रिशिखाकराले
यो रामनामदहने भविता पतङ्गः ४
रावणः साभ्यसूयम्--
सोऽपि त्वं कमिहावगच्छसि पुरा योऽदाहि लाङ्गूलतो
बद्धो मत्तनयेन हन्त स कथं मिथ्यावदन्नः पुरः ।
किं लङ्कापुरदीपनं तव सुतस्तेनाहतोऽक्षो युधी-
त्युक्तः कोपभयत्रपाभरवशस्तूष्णीमभूद्रावणः ५
रावणः
.--
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
कस्त्वं वानर रामराजभवने लेख्यार्थसंवाहको
यातः कुत्र पुरा गतः स हनुमान्निर्दग्धलङ्कापुरः ।
अङ्गदः साधिक्षेपम्--
बद्धो राक्षससूनुनेति कपिभिः संताडितस्तर्जितः
सव्रीडार्तिपराभवो वनमृगः कुत्रेति न ज्ञायते ६
यो युष्माकमदीदहत्पुरमिदं योऽदीदलत्काननं
योऽक्षं वीरममीमरद्गिरिदरीर्योऽबीभरद्राक्षसैः ।
सोऽस्माकं कटके कदाचिदपि नो वीरेषु संभाव्यते
दूतत्वेन इतस्ततः प्रतिदिनं संप्रेष्यते सांप्रतम् ७
अपि च--
यो लङ्कां समदीदहत्तव सुतं रक्षांसि चापीपिष-
द्यः कौशल्यमवीवदज्जनकजामब्धिं तथातीतरत् ।
यश्चारामममूमुटत्स हनुमानस्मत्प्रवीरोद्यमे
48