This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
 
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[Hanuman Nātakam]
 
माने सेतौ तरतः प्रस्तरानवलोक्याह हानुमान् --
ये मज्जन्ति निमज्जयन्ति च परांस्ते प्रस्तरा दुस्तरे
वार्धौ वीर तरन्ति वानरभटान्सन्तारयन्तेऽपि च
नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः
श्रीमद्दाशरथेः प्रतापमहिमारम्भः समुज्जृम्भते १६
कपेश्च सेनाप्लवगैः पुरोगैः पाथोमयं भूवलयं व्यलोकि ।
तत्पृष्ठगैः पङ्कमयं तदान्यैरासीदिहाम्भोनिधिरित्यवादि २०
इति श्रीहनुमन्नाटके सेतुबन्धनं नाम सप्तमोऽङ्कः ७
 
अष्टमोऽङ्कः
 
रामः सुवेलाद्रितटेऽवतीर्णः समुद्रमुल्लङ्घ्य विकीर्णसैन्यः ।
कृपामुपेत्यारिकुलस्य दूतं सुरेन्द्रनप्तारमथादिदेश १
रामः -- भो महावीराङ्गद
 
अज्ञानादथवाधिपत्यरभसादस्मत्परोक्षे हता
सीतेयं परिमुच्यतामिति वचो गत्वा दशास्यं वद ।
नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित-
च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि २
 
अङ्गदः
यथाज्ञापयति देवः ।
स्वगतम्--
हन्तुर्हन्तास्मि नो चेत्पितुरपि परमोत्पन्नसम्पूर्णकार्यं
स्याद्वै युद्धे वधिष्याम्यखिलकपिभटैरुत्कटो हन्तुमेकः ।
ज्ञात्वा संत्यज्य वैरं गगनमिति समुत्पत्य लंकोद्भटस्य
प्रौढः पट्टाधिरूढः सुरपतिसुतजस्तन्महोत्पातकेतुः ३
ततः प्रविशत्यञ्जलिबद्धः प्रहस्तः । ।
 
देव रामस्य दूतः शाखामृगो द्वारे ॥
 
47