This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
बिभीषणः
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
ततश्चतुर्भिः सह मन्त्रिपुत्रैरुत्सृज्य रक्षःकुलधूमकेतुम्
लङ्कामहातंक इवाम्बरेण विभीषणो राघवमाजगाम १२
गते विभीषणे परस्परं वानराः --
अद्यैवास्य विभीषणस्य शरणापन्नस्य मूर्ध्ना नते-
रानृण्याय ददात्ययं रघुपतिर्लंकाधिपत्यश्रियम्
एतस्यैव भुजाविह प्रतिभुवौ सुग्रीवराज्यार्पणे
त्रैलोक्यप्रथिमानसत्यचरिताः सर्वे वयं साक्षिणः १३
 
या विभूतिर्दशग्रीवे शिरच्छेदेपि शंकरात्
दर्शनाद्रामदेवस्य सा विभूतिर्विभीषणे १४
ततो रामेण--
अथ दशरथपुत्रे तत्र सौमित्रिमित्रेऽ-
प्युदगुदधितटान्ते गर्भदर्भावकीर्णे ।
अहमिह विनिविष्टे नावतोऽग्नेतिरोषा-
द्यदि जलधिरनेनाप्यात्तमाग्नेयमस्त्रम् १५
श्रीरामचन्द्रे दशवाहानौ कृतोद्यमे क्रव्यभुजः समस्ताः
मित्राण्यमन्यन्त मृगं कपिं च तपोधनं गाढतरं वनं च १६
समुद्रो रामं प्रति
 
-
 
अस्मद्गोत्रे भविष्यद्दशरथनृपतेरश्वमेधेषु सर्पिः-
संपातोत्तापलोलज्वलदनलकलाव्याकुलं कूर्मराजम् ।
ज्ञात्वा रोदः पुटं वा ननु तव सगरः प्राग्भवो भाविवेत्ता
नेता सप्ताम्बुधीनामपि सविधमवाग्वान्तरश्मिः स्रवन्तीम् १७
रामः सरोषम्--
चापमानय सौमित्रे राघवेऽधिज्यधन्वनि
 
समुद्रं शोषयिष्यामि पदा गच्छन्तु वानराः १८
 
ततः प्राञ्जलिपुटोपस्थितस्य समुद्रस्याज्ञया नलेन निबध्य-
46