2023-03-20 00:00:39 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
त्कर्तुं वीरवरूथिनी मम परं जैत्रं पुनस्त्वद्भुजैः ५
भिल्लीभिः सहासम्--
[Hanuman Nātakam]
नो शस्त्रं नापि शास्त्रं न हि च रथकथा नापि दन्ती न वाजी
नोक्षाणो नापि चोष्ट्रा बत न च शिबिरो नापि राजा जटावान् ।
नो वित्तं नापि वस्त्रं न च नृपरचना काचिदत्रास्ति मातः
प्रातर्द्रष्टुं स्थिताभिर्गिरिवरकुहरेऽभापि भिल्लीभिरेवम् ६
भिल्लीमातरः--
विजेतव्या लङ्का चरणतरणीयो जलनिधि-
र्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः ।
तथाप्येको रामः सकलमपि हन्ति प्रतिबलं
क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ७
अत्रान्तरे तत्र लङ्कायां मन्त्रणायोपविष्टो मन्त्रिभिः
प्रोत्साहितो लंकाभटानुत्कण्ठं बभाषे बिभीषणः-
सुवर्णपुंखाः सुभटाः सुतीक्ष्णा वज्रोपमा वायुमतः प्रवेगाः ।
यावन्न गृह्णन्ति शिरांसि बाणाः प्रदीयतां दशरथाय मैथिली ८
बिभीषणो रावणं प्रत्याह--
जातिं मानय मानुषीमभिमुखो दृष्टस्त्वया हैहयः
स्मृत्वा वालिभुजौ च सांप्रतमवज्ञातुं न ते वानराः ।
तत्पौलस्त्यमहाग्निहोत्रिणमहं त्वामेवमभ्यर्थये
सीतामर्पय मुञ्च च क्रतुभुजः काराकुटुम्बीकृतान् ६
त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्मं कुलकीर्तिवर्धनम्
प्रसीद जीवमे सबान्धवा वयं प्रदीयतां दाशरथाय मैथिली १०
रावणः सक्रोधम्--
जानामि सीतां जनकप्रसूतां जानामि रामं मधुसूदनं च
वधं च जानामि निजं दशास्यस्तथापि सीतां न समर्पयामि ११
इति वामचरणेन बिभीषणं ताडयामास--
45