2023-03-20 00:00:39 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
(रामोऽभिज्ञानत्रयमासाद्य) साधु मारुते साधु ।
अये प्रियायाः कुशलमस्ति ।
ग्राञ्जनेयः--
कार्श्यं चेत्प्रतिपत्कला हिमनिधेः स्थूलाथ चेत्पाण्डिमा
नीला एव मृणालिका यदि घना बाष्पाः कियान्वारिधिः
संतापो यदि शीतलो हुतवहस्तस्याः कियद्वर्ण्यते
राम त्वत्स्मृतिमात्रमेव हृदये लावण्यशेषं वपुः ४०
रामः -- मारुते का कथा ।
हनूमान् भोः प्रभो--
[Hanuman Nātakam]
का शृङ्गारकथा कुतूहलकथा गीतादिविद्याकथा
माद्यत्कुम्भिकथा तुरङ्गमकथा कोदण्डदीक्षाकथा ।
अकैवास्ति मिथः पलायनकथा त्वद्भीतरक्षः पते-
र्देव श्रीरघुनाथ तस्य नगरे स्वप्नेऽपि नान्या कथा ४१
रामः
——
त्रिदशैरपि दुर्धर्षा लंका नाम महापुरी
कथं वीर त्वया दग्धा विद्यमाने दशानने ४२
हनुमान्--
निःश्वासेनैव सीताया राजन्कोपानलेन ते
दग्धपूर्वा तु सा लंका निमित्तमभवत्कपिः ४३
शाखामृगस्य शाखायाः शाखां गन्तुं पराक्रमः ।
यत्पुनर्लंघितोम्भोधिः प्रभावोऽयं प्रभो तव ४४
अन्तराले लंकायां सरमा नाम राक्षसी धर्मिणी जानकीं
वाचमूचे--
बिभेमि सखि संवीक्ष्य भ्रमरीभूतकीटकम् ।
तद्ध्यानादागते पुंस्त्वे तेन सार्धं कुतो रतिः ४५
मा कुरुष्वात्र संदेहं रामे दशरथात्मजे
43