This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
णोर्म्यामुत्पत्य मग्नं तदुरुभुजबलाडम्बरेणाजगाम ३४
ततो मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः ।
वियुक्तरामातुरदृष्टिवीक्षितः समागतः श्रीहनुमान्वसन्तवत् ३५
सीतापतिं ससंभ्रममालिङ्गितुमुद्यतं दृष्ट्वा --
 
देव--
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
पीतो नाम्बुनिधिर्न कोणपपुरी निष्पिष्य चूर्णीकृता
नानीतानि शिरांसि राक्षसपतेर्नानायि सीता मया ।
आश्लेषार्पणपारितोषिकमहं नार्हामि वार्ताहरो
जल्पन्नित्यनिलात्मजः स जयति व्रीडाजडो राघवे ३६
रामः ( सविकल्पं विधातारमुपलम्भते) क्रूरकर्मा विधाता
 
किं विधास्यतीति ॥
 
हनूमान् देव--
कुत्रायोध्या क्व रामो दशरथवचनाद्दण्डकारण्यमागा-
त्कोऽसौ मारीचनामा कनकमयमृगः कुत्र सीतापहारः
सुग्रीवे राममैत्री क्व जनकतनयान्वेषणे प्रेषितोऽहं
योर्थोऽसंभावनीयस्तमपि घटयति क्रूरकर्मा विधाता ३७
 
रामः
 
हे वीर । विदीर्यमाणहृदयद्वारेण प्राणा लोकान्तरं गन्तुमि-
च्छन्ति किमिति तूर्णं चन्द्रवदनां नावेदयसि ।
 
हनूमान् सत्वरम्--
हा राम जगदानन्द किमिदं शिवमस्तु ते
तव प्राणगतिद्वारस्यार्गलेयं करे मम ३८
 
इति जानकी शिरोरत्नं रामाय प्रयच्छति
तथा च--
मनः शिलायास्तिलकं स्मर गण्डस्थले त्वया ।
संमृष्टं जानकीवक्षः स्पर्शात्काणीकृतं खगम् ३६
 
42