2023-03-20 00:00:39 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
पुनः प्रत्यायास्यत्यहह कपिसैन्ये प्रचलिते
पदं प्रोचुर्नीचैर्भयचकितलङ्कापुरजनाः २६
अथाह गगनमण्डलस्थो मारुतिः
एकोऽहं पवनात्मजो दशमुख त्वं चापि कोटीश्वर-
स्त्वां जित्वा समरे प्रभोः प्रणयिनीं सीतां च नेतुं क्षमः ।
किं तूत्थाप्य भुजं पुरा भगवता रामेण सुग्रीवतो
हत्वा दक्षिणपाणिना वसुमतीं त्वां हन्तुमुक्तं वचः ३०
इत्युक्त्वा दशग्रीवनगरीं भस्मसात्कृत्वा रक्षितामशोकवनि-
कामागम्य जानकीं प्रणम्य रामाभिज्ञानं याचते स्म हनूमान् ॥
मैथिली--
शिखां धूमशिखां शत्रोः कालव्यालवधूमिव
उद्यम्यास्य शिरोरत्नं संज्ञानं स्वामिने ददौ ३१
इति प्रथममभिज्ञानम् ॥
तथा च चित्रकूटपर्वते --
वक्षोभिचारि चरुभाण्डमिव स्तनं यो
देव्या विदेहदुहितुर्विददार काकः
ऐषीकमस्त्रमधिकृत्य तदा ततोऽक्ष्णा
काणीचकार करुणो रघुराजपुत्रः ३२
इति द्वितीयमभिज्ञानम् ॥
[Hanuman Nātakam]
मनः शिलायास्तिलकं तथा मे गण्डस्थले पाणितलेन मृष्टम्
स्मरेति संज्ञानमपि प्रयच्छ जीवाम्यतो राघव मासमात्रम् ३३
इति तृतीयमभिज्ञानम् ॥
हनूमान्--
रत्नं यत्नाद्गृहीत्वा तदनु कपिभटश्चित्रकूटस्य संज्ञां
नत्वा पादारविन्दद्वयमपि जनकस्यात्मजाया हनूमान् ।
पाणिभ्यामंघ्रियुग्मं पुनरुदधितटे मन्त्रयित्वाभ्रगर्भे-
41