2023-03-20 00:00:32 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
नमयति धनुरैशं यस्तदारोपणेन
त्रिभुवनजयलक्ष्मीर्जानकी तस्य दाराः १८
श्रीरामः नाट्यम्--
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
कपोलै जानक्याः करिकलभदन्तद्युतिमुपि
स्मरस्मेरं गण्डोडुमरपुलकं वक्त्रकमलम् ।
मुहुः पञ्चञ्शृण्वन्रजनिचरमेनाकलकलं
जटाजूटग्रन्थिं रचयति रघूणां परिवृढः १६
गृहीतहरकोदण्डे रामे परिणयोन्मुखे
पस्पन्द नयनं वामं जानकीजामदग्न्ययोः २०
लक्ष्मणो रामे सज्यं धनुः कुर्वति सति पृथ्व्यादीनि
भुवनान्यधो यास्यन्तीत्याशङ्कयाह--
पृथ्वि स्थिरा भव भुजंगमधारयैनां
त्वं कूर्मराज तदिदं द्वितयं दधीथाः ।
दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षां
रामः करोति हरकार्मुकमाततज्यम् २१
पृथ्वी याति विनम्रतां फणिपतेर्नम्रं फणामण्डलं
बिभ्रत्क्षुभ्यति कूर्मराजसहिता दिक्कुञ्जराः कातराः ।
आतन्वन्ति च वृंहितं दिशि भटैः सार्धं धराधारिणो
वेपन्ते रघुपुंगवे पुरजितः सज्यं धनुः कुर्वति २२
तदा च--
उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं
भूपानां जनकस्य संशयधिया साकं समास्फालितम् ।
वैदेहीमनसा समं च सहसाकृष्टं ततो भार्गव -
प्रौढाहंकृतिदुर्मदेन सहितं तद्भग्नमैशं धनुः २३
शंभौ यद्गुणवल्लरीमुपनयत्याकृष्य कर्णान्तिकं
भ्रश्यन्ति त्रिपुरावरोधसुदृशां कर्णोत्पलग्रन्थयः ।
4