This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
हनुमान्--
स्वभावादेव तन्वङ्गि त्वद्वियोगाद्विशेषतः
प्रतिपत्पाठशीलस्य विद्येव तनुतां गतः १८
जानकी--
[Hanuman Nātakam]
 
चन्द्रो यत्र दिनेशदीधितिसमः पद्मं स्फुलिंगोपमं
कर्पूरः कुलिशोपमः शशिकला शम्पासमा भासते ।
वायुर्वाडववह्निवन्मलयजो दावाग्निवत्सांप्रतं
संदशं नय रामसंनिधिमितो यात्रां द्रुतं कारय १६
हनुमान्--
किं दूरमिन्दुमुखि रामशिलीमुखानां
किं दुर्गमर्गलभिदां हरियूथपानाम्
दैवं प्रसन्नमिव देवि तवाद्य सत्यं
रक्षांसि कानि कुपितस्य सलक्ष्मणस्य २०
 
अत्रान्तरे जानकीं सप्रपञ्चं पृच्छन्हनुमान्--मातः कुत्रास्ते
राजवाटिका ?
 
दर्शयति जानकी--
रे
 
पुत्र पश्चिमदिग्भागेनास्यास्ति वाटिका । हनूमान् उद्यल्लां-
गूलप्रचण्डरूपेण प्रचलितः-
इत्युक्त्वा रजनीचरस्य हनुमानुद्भिद्य लीलावनं
वीरं तत्सुतमक्षमात्तपरिघाघातैर्जघानागतम् ।
तत्कोपारुणलोचनेन्द्रजयिना प्राङ् निष्कलत्वाद्धृतं
ब्रह्मास्त्रेण विगर्हितेन विधिना बद्धो विदग्धः कपिः २१
रावणः तमालोक्य--
रेरे वानर को भवानहमरे त्वत्सूनुहन्ताहवे
 
दूतोऽहं खरखण्डनस्य जगतां कोदण्डदीक्षागुरोः ।
मद्दोर्दण्डकठोरताडनविधौ को वा त्रिकूटाचलः
 
39