2023-03-20 00:00:38 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
अथ दशरथसूनोराज्ञया वायुपुत्रो
रजनिचरपुरीमालोक्य भूत्वा द्विदंशः
अकलितपरिमाणो मात्रया सत्रपस्तां
क्षिपति जनकजाग्रे शिंशपाग्रावतीर्णः १३
जानकीं नमस्कृत्य मारुतिः
मातर्जानकि को भवानिह मृगः, केनात्र संप्रेषित-
स्त्वद्दौत्येन रघूत्तमेन किमिदं हस्तेऽस्ति तन्मुद्रिका ।
दत्ता तेन तवैव तां निजकरादालभ्य चालिंग्य च
प्रेम्णाश्रूणि ससर्ज सम्यगुदभूद्गात्रेषु रोमोद्गमः १४
हनुमानविरलगलदश्रुपूर्णलोचनाभ्यां सौवर्णमंगुलीयकं
मन्यमानां जानकीं संभावयामास । हे भामिनि--
सुवर्णस्य सुवर्णस्य सुवर्णस्य च मैथिलि
प्रेपितं रामचन्द्रेण सुवर्णस्यांगुलीयकम् १५
जानकी आशालेशमासाद्य क्षणमणि प्रमृज्य-
मुद्रिकाव्याजेन मारुतिं प्रति--
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
--
कथंचिच्चेतनां प्राप्य--
मुद्रे सन्ति सलक्ष्मणाः कुशलिनः श्रीरामपादाः सुखं
सन्ति स्वामिनि मा विधेहि विधुरं चेतोऽनया चिन्तया ।
एनां व्याहर मैथिलाधिपसुते नामान्तरेणाधुना
रामस्त्वद्विरहेण कङ्कणपदं ह्यस्यै चिरं दत्तवान् १६
अत्रांगुलीयकमणौ प्रतिबिम्बमासी-
द्रामस्य सादरमतीव विलोकयन्ती ।
मद्रूप एव किमभून्मम वीक्षयेति
मीमांसया जनकराजसुता मुमोह १७
ये मरुत्तनय यद्यंगुलीयकमेवकंकणमभूत्स्वामिनो राम-
देवस्य तर्हि किमिव तनुतां गतः ?
38