2023-03-20 00:00:38 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
मुद्रां समुद्रमुल्लंघ्य शीघ्रमाश्वास्य जानकीम् ।
विन्यस्य पुरतस्तस्या आगच्छ मयि जीवति ७
हनूमांस्तथेति श्रीरामसुग्रीवौ प्रणम्य समादाय मुद्रां
समुद्रोपकण्ठं पीठावतारमासाद्य सद्योऽचिन्तयत्--
एते ते दुरतिक्रमाः क्रममिलवर्णोर्मिमर्मच्छिदः
कादम्बेन रजोभरेण ककुभो रुन्धन्ति झञ्झानिलाः ।
गाढाम्रेडनरूढनीरदघटासंघट्टनीलीभव-
द्व्योमास्फोटकटाहनिर्झरपयोवेणीकणग्राहिणः ८
अथ सविलसदम्भः स्तम्भिताक्षिप्रकाशं
१२
[Hanuman Nātakam]
धैर्यमवलम्ब्योद्यल्लांगूलास्फालकेलिव्याकुली-
कृताम्बरचरः सज्जो बभूव --
जलचरखललेखास्फालवाचालिताशम् ।
जलनिधिमधिवीरोल्लंघितुं जांघिकत्वं
खगपतिरिव चण्डोड्डीनमङ्गीचकार ६
लांगूलोत्तालकेतुर्नभसि पृथुगतिः स्फारसीमन्तिताभ्रः
स्फूर्जत्प्रौढोरुवेगोल्ललितजलनिधिः पृष्ठकृष्टोग्रसत्त्वः ।
दूरात्सिन्दूरपूरारुणमरुणरुचिस्तेजसः संविभागै-
श्चक्रेदिग्वारणानां कटितटमभितः सूर्यविद्धाम्बुदाभम् १०
तत्रावसरे समुद्रादुत्थितो मैनाकः--
विश्रान्तस्तत्र हर्षात्सपदि जलधिना प्रेरितो रत्ननाभो
मैनाकः काञ्चनाङ्गस्तुहिनगिरिसुतः प्राह दूरागतस्त्वम्
हंहो दूराध्ववेदं जहि मम शिखरे प्राप्य तस्येति वाचं
स्पृष्टांगुल्या तदग्रं भुजरयपवनापूरिताशं जगाम ११
वेलातटे शालतमालमालां विलोकमानः सहसाञ्जनेयः
उल्लोलयन्वालधिवल्लिमुच्चैः कल्लोलिनीवल्लभमुल्ललंघे
37