This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
प्रचण्डदोर्दण्डयोर्महतीं
 
अष्टांगुलमयः कायः पुच्छो मे द्वादशांगुलः ।
बाहू मे पश्य भो नाथ कथं रत्नाकरं तरेः २
रामचन्द्रः सविस्मयो बभूव --
 
ततो जाम्बवान् । देव रुद्रावतारोऽयं मारुतिः रुद्रस्तुतिः
क्रियताम् । रामचन्द्रो रुद्रस्तुतिं कृत्वा भो भो मारुते,
त्वया विहीनः कः कर्तुं समर्थोऽस्ति । तत्र हनूमान्महा-
वीराद्भुतपराक्रमः । सहर्षं वाक्यम् । देवाकर्णय--
कूर्मो मूलवदालवालवदपां नाथो लतावद्दिशो
मेघाः पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः ।
स्वामिन्व्योमतरुर्मम क्रमतले श्रुत्वेति गां मारुतेः
सीतान्वेषणमादिशन्दिशतु वो रामः सहर्षः श्रियम् ३
देवाज्ञापय किं करोमि सहसा लंकामिहैवानये
जम्बूद्वीपमितो नये किमथवा वारांनिधिं शोषये ।
हेलोत्पाटितविन्ध्यमन्दरगिरिः स्वर्णत्रिनेत्राचल-
क्षेपक्षुण्णविवर्तमानसलिलं
 
प्रौढिं नाटयति । देव पश्य -- )
 
बध्नामि वारांनिधिम् ४
अपि च--
देवाज्ञां देहि राज्ञां त्वमसि कुलगुरुः शोषये किं पयोधिं
किं वा लंकां सलंकाधिपतिमुपनये जानकीं मानकीर्णाम् ।
सेतुं बध्नामि मत्तः स्फुटितगिरितटीभूतभङ्गातरङ्गा-
दुद्भ्राम्यन्नक्रचक्रोऽपि च मकरकुलग्राहचीत्कारघोरम् ५
किं प्राकारविहारतोरणवतीं लंकामिहैवानये
किं वा सैन्यसमुद्धृतं च सकलं तत्रैव संपादये ।
हेलान्दोलितपर्वतोच्चशिखरैर्वध्नामि वारांनिधिं
देवाज्ञापय किं करोमि सकलं दोर्दण्डसाध्यं मम ६
रामः सत्वरं करमुद्रां समुद्धृत्य, वीरमारुते--
36