2023-03-20 00:00:38 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
[Hanuman Nātakam]
राज्ये सुग्रीवमादौ सदयितमभिषिच्याङ्गदं यौवराज्ये
रामः सेनाधिपत्ये सपवनतनयान्वानरेन्द्रान्प्रतस्थे ।
लंकां संत्यज्य शंकां तदनु कपिभटैर्माल्यवत्युत्तमाद्रौ
वर्षाकालं गमयितुमचिरान्मन्त्रिभिः संमतोऽभूत् ६०
रामात्परः शूरतरो न कश्चित्पराभवः स्त्रीहरणान्न चान्यः ।
तथापि नाब्धिं प्रविवेश रामो बबन्ध सेतुं विजयासहिष्णुः ६१
अपि च--
रामाद्बलीयान्न परोऽत्र कश्चिद्दारापहारान्न परोऽभिमानः
तथापि रामः शरदं प्रतीक्ष्य बद्ध्वाम्बुधौ सेतुमरिं जगाम ६२
रामस्तत्र जनकतनयाकमनीयतामनुस्मृत्य--
इन्दुर्लिप्त इवाञ्जनेन गलिता दृष्टिर्मृगीणामिव
प्रम्लानारुणमेव विद्रुमदलं श्यामेव हेमप्रभा
पारुष्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं
सीतायाः पुरतस्तु हन्त शिखिनां बर्हाः सगर्हा इव ६३
रामः कादम्बिनीताण्डवाडम्बरं विलोक्य --
यत्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी
येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता-
स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ६४
इति श्रीहनुमन्नाटके वालिवधो नाम पञ्चमोऽङ्कः ५
षष्ठोऽङ्कः
रामः वानरभटानाचष्टे । भो भो सुग्रीवसैनिकाः शृणुत--
व्यसने महति प्राप्ते स्थिरैः स्थातुं न युज्यते ।
लंकां निः शंकमालोक्य क इहागन्तुमर्हति १
हनूमान् (सहर्षं दोस्तम्भास्फालनकेलिमभिनीय निज-
35