2023-03-20 00:00:37 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
रामः सकरुणं सविषादं च--
वत्स सौमित्रे गिरिगह्वरेषु स्वयोनिविहितं महत्सुखमनुभवन्तं
महावीरं अनपराधिनं वालिनं हत्वा मन्दभाग्यः कथमहं
जानकीसुखमनुभविष्यामीति शिरो धन्वन्पौरन्दरिं व्याजहार--
शस्त्रौघप्रसरेण रावणिरसौ यो दुर्यशोभागिनं
चक्रे गौतमशापयन्त्रितभुजस्थेमानमाखण्डलम् ।
कक्षागर्तकुलीरतां गमयता वीर त्वया रावणं
तत्संमृष्टमहो विशल्यकरणो जागर्ति सत्पुत्रता ५५
वाली प्राणांस्त्यक्तुमिच्छन्--
सुग्रीवोऽपि क्षमः कर्तुं यत्कार्यं तव राघव ।
किमहं न क्षमः कस्मादपराधं विना हतः ५६
रामः सबाष्पम्--
शुद्धिर्भविष्यति पुरन्दरनन्दन त्वं
मामेव चेदहह पातकिनं शयानम्
सौख्यार्थिनं निरपराधिनमाहनिष्य-
स्यस्मात्पुनर्जनकजाविरहोऽस्तु मा मे ५७
पौरन्दरिः--
तथेत्युक्त्वा पुनः स्वर्ग्या गतिस्ते न भविष्यति
यावत्त्वां न हनिष्यामि स्थास्यसि त्वं यमालये ५८
इति प्राणान्मुमोच ।
हनूमान् स्वगतम्--
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
दासैरहो रघुपतिः परिभूयते किं
वैवस्वतादिभिरुवास तदालयेऽपि ।
यो देववाक्यमनतिकमयन्कियन्तं
कालं निहत्य पुरुहूतसुतं तु देवः ५६
रामः कथंचिद्विषादं परित्यज्य पौरुषमवलम्ब्य--
34