2023-03-20 00:00:37 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
तारा सहर्षम्--
अवश्यं भगवतः श्रीपुरुषोत्तमस्य रामचन्द्रस्य प्रसादादद्य
चिरविरहिणः प्राणवल्लभस्य सुग्रीवस्य वक्षः पीठे लुठि-
ष्यामीति मन्यमाना गिरिवरशिखरमारुह्य रामपौरन्दरि-
समरमाकांक्षती चिन्तयामास--
तारा संत्यक्तहारा गिरिशिखरचरा स्रस्तधम्मिल्लभारा
शोकाब्धिप्राप्तपारार्पितमदनशरा वीरसुग्रीवदाराः ।
नारा नाराचधारा निजरमणरता तापिनः पापिनोऽस्य
प्राणाञ्छाणावतीर्णा हरतु कलिकलाशालिनो बालिनोऽद्य ५१
रामः सक्षोभं पौरन्दरिं गिरिगरिमगम्भीरमहिमानमव-
लोक्य सौमित्रिमित्रमनुस्मृत्याब्रवीत् वत्स--
[Hanuman Nātakam]
किं वाली वानराली वहलकलकलाहूतदेवेन्द्रवज्रं
वाञ्छत्याकृष्य योद्धुं शिवशिव तुमुलोत्कालसंचालितार्कः ।
प्रोद्यल्लांगूलवल्लीशिखरकवलितं चण्डदोर्दण्डकाण्ड-
भ्रान्तामूलाग्रशैलप्रहरणनिपुणः केन योद्धव्य एषः ५२
सावष्टम्भं नारायणं बाणमादाय --
वेदोद्भवैर्द्विजगणेन पुराभिषिक्तो
मूर्ध्ना समं त्वमपि बाणगुणेन मन्त्रैः ।
तत्तेजसा परवधूजनहारिणस्त्वं
प्राणान्गृहाण समरेष्वतिदारुणस्य ५३
रामबाणः--पौरन्दरिश्च ब्रह्मतेजोभिगम्य परदारापहरण-
पराभवं च--
अथ रघुपतिबाणः प्राप्तवरिप्रमाणः
प्रलयदहनरोचिः कोटिविद्युन्मरीचिः ।
अकृत हृदयभेदं वालिनः सोऽप्यरोदी-
दनिहतपितृशत्रुः किं सशल्यो हतोऽस्मि ५४
33