This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
न्भारेणांघ्रेरथ रघुपतिः संदधे दिव्यमस्त्रम् ४४
 
लक्ष्मणः सशंकं रामं प्रति । देव ज्ञात्वा बाणः प्रहर्त्तव्यः ।
यतः--एकदैव शरेणैकेनैव भिन्नकलेवराः ।
 
म्रियन्ते सप्त तालास्तं घ्नन्ति हन्तारमन्यथा ४५
रामः सावज्ञम्--
मा भैषीर्मयि सौमित्रे राघवेऽधिज्यधन्वनि
सतां देहं परित्यज्य निर्जगामासतां भयम् ४६
रामः करेण बाणमालभ्य --
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
भावोऽस्ति चेत्कुशिकनन्दनपादयोर्मे
यद्यस्म्यहं द्विजतिरस्कृतिरोषहीनः ।
नान्यांगनासु च मनः शर सप्त ताला-
भित्त्वा तदा प्रविश भूतलमप्यगाधम् ४७
एकेनैव शरेण बालकदलीकाण्डप्रभंगक्रमा-
त्कृत्तेषु प्रथमेषु दाशरथिना तालेषु सप्तस्वथ ।
अश्वाः सप्त जगन्ति सप्त मुनयः सप्ताब्धयः सप्त गाः
सत्यं सप्त च मातरो भयभृतः संख्यानसाम्यादिह ४८
रामबाणः सक्षोभम्--
बाणः प्रमाणमधिगम्य वसुंधरायाः
संबोधयन्निव भुजङ्गमभङ्गभित्या ।
ब्रह्माणमम्बरचरान्विधुनोति पक्षा-
नपुंखावशेष इति रामकराद्विमुक्तः ४६
पौरंदरिः सक्रोधम्--
श्रुत्वा हतान्समरमूर्धनि सप्त ताला-
न्रामेण पापहृदयेन विनापराधम् ।
कोपानलज्वलितहृत्कमलोऽथ बाली
रङ्गावतारमगमद्गिरिचत्वरेषु ५०
 
32