This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
हनुमान्सानुनयम्--
श्रीराम क्षोणिपाल त्यज निजदयिताशोकमेकः सलोकं
लंकेशं जेतुमीशे तमपि कपिपतेराज्ञयाहं हनूमान्
सुग्रीवस्याथ सार्धं गिरिमवतरणं पादविन्यासलक्ष्मी-
निक्षेपादुत्पलाक्ष क्षपितरिपुबलं दर्शनं त्वं च देहि ३६
ततो हनूमान्सह लक्ष्मणेन रामेण सुग्रीवपुरः स्थितोऽभूत्
तांस्तत्र साक्षात्कपियूथनाथः पापानि दग्धुं दहनं ददर्श ४०
श्रुत्वा रामस्य कान्ताहरणमनिलजस्याननाद्वानरेन्द्रो
निःश्वस्यात्मीयमस्यानुवदति पुरतस्तद्वलाद्वालिनोऽपि ।
हा नाथे विद्यमाने किमिति रघुपतिस्तं निहन्तुं प्रतिज्ञा-
मारूढः प्रौढरोषानलबहलकलालंकृतोऽधिज्यधन्वा ४१
नत्वा ससंभ्रममथो जगदेकवीर-
मालिंगयन्रघुपतिं शुशुभे कपीन्द्रः
तद्विस्मृतं पुनरिवाभ्यसते प्रियायाः
कन्दर्पकेलिषु पुनद्रुतभाविनीषु ४२
सुग्रीवः --
 
अये मरुत्तनय कोऽसौ चतुर्णां ताटकान्तकः
 
मरुतिः --
 
ये चत्वारो दिनकरकुलक्षत्त्रसन्तानवल्ली-
मालाम्लानस्तबकमधुपा जज्ञिरे राजपुत्राः ।
रामस्तेषामभवदमलस्ताटकाकालरात्रि-
प्रत्यूषोऽयं सुचरितकथाकन्दलीमूलकन्दः ४३
 
ततः
 
श्रुत्वा बाली तदनु महतीं राघवस्य प्रतिज्ञां
तालान्सप्त प्रकृतिकुटिलान्प्रेरयामास योद्धुम् ।
सौमित्रिस्तानकृतसरलाञ्शेषपृष्ठस्थमूला-
[Hanuman Nātakam]
 
31