2023-03-20 00:00:37 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
शरणं मरणं राज्यं मा पुनर्लक्ष्मणेऽस्तु तत् ३१
ततो वामं तिरस्कृत्य पुरस्कृत्य च दक्षिणम् ।
धन्यो वन्यशरण्यां तामरण्यानीं स्म गाहते ३२
किं च--
किष्किन्धाद्रौ रौद्ररुद्रावतारं दृष्ट्वा रामो मारुतिं वाचमूचे ।
सीता नीता चेनचित्क्वापि दृष्टा हृष्टः कष्टं संहरन्प्राह वीरः ३३
पापेनाकृष्यमाणा रजनिचरवरेणाम्बरेण व्रजन्ती
किष्किन्धाद्रौ मुमोच प्रचुरमणिगणैर्भूषणान्यर्चितानि ।
हा राम प्राणनाथेत्यहह जहि रिपुं लक्ष्मणेनालपन्ती
यानीमानीति तानि क्षिपति रघुपुरः कापि रामाञ्जनेयः ३४
रामः सकरुणं सबाष्पम्--
जानक्या एव जानामि भूषणानीति नान्यथा
वत्स लक्ष्मण जानीषे पश्य त्वमपि तत्त्वतः ३५
लक्ष्मणः सबाष्पम्--
कुण्डले नैव जानामि नैव जानामि कङ्कणे
नूपुरावेव जानामि नित्यं पादाभिवन्दनात् ३६
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
रामः आभरणानि हृदये विन्यस्य गाढमालिंग्य--
सर्वेषु सत्स्वपि तवाभरणेषु हारो
नारोपितो हृदि चिरं हृदयंगतोऽपि
मुक्तार्थसूत्रगुणवेधविशुद्धराशि-
स्तत्पंक्तिभेदफलदारुणमित्यरोदीत् ३७
पुनरपि--
अहह जनकपुत्री वक्त्रमुद्रामपश्य-
न्व्रजति परमहंसो नाक्षमो वापि गन्तुम्
तदुरुविरहवह्निज्वालया दग्धदेहः
किमुत पवनसूनोभूषणैस्तम्भितो मे ३८
30