This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
तद्वृत्तानि परोरजांसि मुनयः प्राच्या मरीच्यादयः १२
 
पुनः रामं प्रति--
समंतादुत्तालैः सुरसहचरीचामरमरु-
त्तरङ्गैरुन्मीलद्भुजपरिघसौरभ्यशुचिना
स्वयं पौलस्त्येन त्रिभुवनजिता चेतसि धृता-
मरे राम त्वं मा जनकपतिपुत्रीमुपयथाः १३
 
जनकः--
माहेश्वरं धनुः कुर्यादधिज्यं चेद्ददामि ताम्
पुरोहितः
 
गुरोः शंभोर्धनुर्नो चेच्चूर्णतां नयति क्षणात् १४
जनकः विहस्य--
शम्भोरावासमचलमुत्क्षेप्तुं भुजकौतुकी
माहेश्वरं धनुः क्रष्टुमर्हते दशकंधरः १५
जनकः सीतां प्रति सखेदम्--
माहेश्वरो दशग्रीवः क्षुद्राश्चान्ये महीभुजः
पिनाकारोपणं शुल्कं हा सीते किं भविष्यति १६
सीता--
'कमठपृष्ठम्' इत्यादि पुनः पठति ।
 
रावणपुरोहितः सक्रोधम्--
सार्धं हरेण हरवल्लभया च देव्या
हेरम्बषण्मुखवृषप्रमथावकीर्णम्
कैलासमुद्धृतवतो दशकन्धरस्य
केयं च ते धनुषि दुर्मद दोः परीक्षा १७
 
जनकः
 
——
 
शृणुत जनककल्पाः क्षत्त्रियाः शुल्कमेते
दशवदनभुजानां कुण्ठिता यत्र शक्तिः
 
3
 
[ Hanuman Nātakam]