This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
 
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[Hanuman Nātakam]
 
दक्षिणतस्तु दक्षिणाचलप्रचलितमलयमालतीमरुचकलवङ्ग-
कंकोलदमनकजातीतगरशतपत्रादिकमलमुकुलकुमुदिनीक-
ह्लारपरिमलमिलितचुम्बितताम्रपर्णीकावेरीतुङ्गभद्रासान्द्र-
गम्भीरनीरधारातरङ्गपरिपीतमैत्रावरुणतरुणीलंकाशशांक-
रुद्रपादाद्रिसरलसिंहलसालकश्रीगोपालकां पाण्ड्यमण्डल-
गिरिप्रवालचोलकुन्तलकेरलपुन्नाटककर्णाटककरहाटविद-
ग्धान्ध्रकामिनीनीरन्ध्रपीनस्तनवदनघनजघनदोर्मूलधम्मि-
ल्लभारान्तराधिष्ठितश्रीखण्डागरुकर्पूरमृगमदकुंकुमस्तोमसंभू-
तयक्षकर्दमविमर्दवर्धितविविधगन्धकुसुमबहुलपरिमलोद्गा-
रिमारुताशनोत्थितक्षीरनीहारकाश्मीरस्फटिकशुद्धशंखकर्पू-
रकुन्दावदातमहाभुजंगस्फीतफूत्कारप्रफुल्लफणामणौ क्री-
डन्तं शोकभञ्जनं खञ्जनं चावलोक्य वामेनाक्ष्णा सकरुणं
सवाष्पं च दक्षिणेन सविस्मयं सानन्दमभवदिति ।
काकः कपोलस्थलसंस्थितो मे कोलस्य वामे व्यसनं
सदौस्थ्यम् ।
 
राज्यं भुजंगस्य फणाधिरूढो व्यनक्तयहो दक्षिणखञ्जरीटः २८
क्षणं विचिन्त्य विश्रम्य च सबाष्पम्--
भो भो भुजङ्ग तरुपल्लवलोलजिह्व
बन्धूकपुष्पवरशोभितपुष्कराक्ष ।
पृच्छामि ते पवनभोजनकोमलांगी
काचित्त्वया शरदचन्द्रमुखी न दृष्टा २६
भुजङ्गमः सुवाणीं कथयति--
गता गता चम्पकपुष्पवर्णा पीनस्तनी कुंकुमचर्चितांगी ।
आकाशगंगेव सुशीतलांगी नक्षत्रमध्ये इव चन्द्ररेखा ३०
 
रामः
 
व्यसनं किमतोऽप्यास्ते ज्ञातश्चाभ्युदयो मम ।
 
29