This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[Hanuman Nātakam]
 
परमप्रेमाणमधिगम्य--
शंके शशांके जगुरंकमेके पंकं कुरंगं प्रतिबिम्बितांगम्
 
धूमं च भूमण्डलमुद्धताग्नेर्वियोगजातस्य मम प्रियायाः २१
रेरे निर्दय दुर्निवार मदन प्रोल्फुल्लपंकेरुहा-
न्बाणान्त्संवृणु संवृणु त्यज धनुः किं पौरुषं मां प्रति ।
कान्तासंगवियोगजातहुतभुग्ज्वालाप्रदग्धं वपुः
शूराणां मृतमारणे नहि वरो धर्मः प्रयुक्तो बुधैः २२
 
अथवा --
 
आपुंखाग्रममी शरा मनसि मे मग्नाः समं पञ्च ते
निर्दग्धं मदनाग्निना वपुरिदं तैरेव सार्धं पुनः ।
कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो
दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु २३
तत्रापि क्षणं विकसिताशोकतरुतले विश्रा-
म्याह स्म दाशरथिः
 
रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै-
-
 
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि ।
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयो-
स्तुल्यं सर्वमशोककेवलमहं धात्रा सशोकः कृतः २४
पुनरपि प्रलपति--
हारो नारोपितः कण्ठे मया विश्लेषभीरुणा
इदानीमन्तरे जाताः पर्वताः सरितो द्रुमाः २५
चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते
माल्यं सूचिकुलायते मलयजो लेपः स्फुलिंगायते ।
रात्रिः कल्पशतायते विधिवशात्प्राणोऽपि भारायते
हा हन्त प्रमदावियोगसमयः संहारकालायते २६
मांसं कार्श्यादभिगतमपां बिन्दवो वाष्पपाता-
27