This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[Hanuman Nātakam]
 
बिम्बोष्ठी चारुनेत्री सुविपुलजघना बद्धनागेन्द्रकांची
हा सीता केन नीता मम हृदयगता को भवान्केन दृष्टा १०
हे गोदावरि पुण्यवारिपुलिने सीता न दृष्टा त्वया
सा हर्तुं कमलानि चागतवती याता विनोदाय वा ।
इत्येवं प्रतिपादपं प्रतिनगं प्रत्यापगं प्रत्यगं
प्रत्येणं प्रतिबर्हिणं तत इतस्तां मैथिलीं याचते ११
पुनर्लक्ष्मणमासाद्य वैक्लव्यं नाटयति--
के यूयं वद नाथनाथ किमिदं दासोऽस्मि ते लक्ष्मणः
कोऽहं वत्स स आर्य एव भगवानार्यः स को राघवः
किं कुर्मो विजने वने तत इतो देवी समुद्रीक्ष्यते
 
का देवी जनकाधिराजतनया हाहा प्रिये जानकि १२
सौमित्रिणा सह रामः, अत्रान्तरे वनान्तं पर्यटञ्जनकतनया-
तापिनः पापिनो रजनिचरपतेर्भुजभुजङ्गमण्डलीखण्डितो-
रगवधूवैधव्यधातारं विपक्षरक्षसा निहतं घोरसमरमूर्च्छितं
पक्षिराजं जटायुषं भग्वं च रावणरथमालोक्य --
ज्ञात्वा दशरथस्यैनं मित्रं शत्रुनिषूदनम्
 
हा तात किमिदं नाम रामः पक्षीन्द्रमब्रवीत् १३
जटायुः --
अर्धरात्रे दिनस्यार्धे अर्धचंद्रेऽर्धभास्करे
रावणेन हृता सीताकृष्णपक्षे सिताष्टमी १४
यत्रेति वाक्यशेषः रामः --
भग्नोऽयं कथमस्ति रावणरथस्तातेन वज्रांकुर-
क्रूरावस्करणेन भंगुरलसत्कोटित्रुटज्ज्यं धनुः ।
हे सीरध्वजराजपुत्रि स तथा दृष्टस्त्वया धन्यया
पक्षीन्द्रो दशकण्ठकुञ्जरशिरः संचारिपञ्चाननः १५
तात त्वं निजतेजसैव गमितः स्वर्गं व्रज स्वस्ति ते
 
25