2023-03-20 00:00:36 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
मध्योऽयं हरिभिः स्मितं हिमरुचा नेत्रे कुरङ्गीगणैः
कान्तिश्चम्पककुड्मलैः कलरवो हा हा हृतः कोकिलैः ।
मातंगैर्गमनं कथं कथमहो हंसैर्विभज्याधुना
कान्तारे सकलैर्विनाश्य पशुवन्नीतासि भो मैथिलि ३
युक्तमेव हि कैकेय्या यदहं प्रेषितो वनम्
ईदृशी यस्य मे बुद्धिर्मृगः क्वापि हिरण्मयः ४
आलिंगितात्र सरसीरुहकोरकाक्षी
पीताधरेतिमधुरे विधुमण्डलास्या ।
रंगावतारमकरंदविमर्दितानि
पुष्पान्यमूनि दयिते क्व गतेत्यरोदीत् ५
गाहंगाहं गह्वरकान्तारवनान्ता-
द्दर्शंदर्शं दर्पकभल्लीरिव वल्लीः ।
स्मारंस्मारं दूरगतां तामथ कान्तां
रामः कान्तामद्रिचरो दीनमरोदीत् ६
स भूरजोरञ्जितसर्वकायो बभौ विभुर्मन्युविदीर्णचेताः
योषिद्वियोगानलदह्यमानं स्वकान्तमालिङ्गयतीव भूमिः ७
सीतेति हा जनक वंशजवैजयन्ति
हा मद्विलोचनचकोरनवेन्दुलेखे ।
इत्थं स्फुटं बहु विलप्य विलप्य राम-
स्तामेव पर्णवसतिं परितश्चचार ८
हा जानकि प्रचलितोत्पलपद्मनेत्रे
हा मे मनः कमलकाननराजहंसि
एष प्रिये तव वियोगजवह्निदग्धो
दीनं प्रयामि भवतीं क्व विलोकयामि ६
रे वृक्षाः पर्वतस्था गिरिगहनलता वायुना वीज्यमाना
रामोऽहं व्याकुलात्मा दशरथतनयः शोकशुक्रेण दग्धः ।
24