2023-03-20 00:00:35 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
[Hanuman Nātakam]
न रामस्यास्येन्दुर्नयनविषयोऽभूत्सुकृतिनो
जटायोर्जन्मेदं वितथमभवद्भाग्यरहितम् १३
हा राम हा रमण हा जगदेकवीर
हा नाथ हा रघुपते किमुपेक्षसे माम्
इत्थं विदेहतनयां मुहुरालपन्ती-
मादाय राक्षसपतिर्नभसा जगाम १४
आकृष्यमाणाभरणानि मुक्त्वा सैरध्वजी मारुतिमद्रिमौलौ
उमाच रामाय सलक्ष्मणाय वराय देयानि सदेवराय १५
रामः शुष्के स्थाणौ दक्षिणे रटन्तं करटमवलोक्य पुनरा-
गच्छन्निजप्राणप्रयाणमेव मन्वानः क्षणं विश्रम्य ।
मायाकुरंगं विनिहत्य रामो भ्रात्रा सहागत्य च पर्णशालाम्
कोणत्रयेषु प्रसमीक्ष्य सीतां दृष्टश्चतुर्थो न च शोकभीत्या १६
इति श्रीमद्धनुमन्नाटके सीताहरणं नाम चतुर्थोऽङ्कः ४
पञ्चमोऽङ्कः
रामः प्राणोत्क्रमणसमयादपि घोरतरं वियोगसमयमधिगम्य
पर्णशालान्तरालमालोक्य कथमपि विदीर्णहृदयमार्गादुज्जि-
गमिषून्प्राणान्धारयंस्तदुत्तरीयमुपलभ्य जानकीं स्मरन्नरोदीत् --
द्यूककते पणः प्रणयकेलिषु कण्ठपाशः
क्रीडापरिश्रमहरं व्यजनं रत्नान्ते ।
शय्या निशीथसमये जनकात्मजायाः
प्राप्तं मया विधिवशादिदमुत्तरीयम् १
बहिरपि न पदानां पंक्तिरन्तर्न काचि-
त्किमिदमियमसीता पर्णशाला किमन्या ।
अहमपि किल नायं सर्वथा राघवश्चे-
त्क्षणमपि नहि सोढा हन्त सीतावियोगम् २
23