2023-03-20 00:00:36 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
रे रे भोः परदारचोर किमरेऽधीरं त्वया गम्यते
तिष्ठाधिष्ठितचन्दनाचलतटः प्राप्तो जटायुः स्वयम्
मुञ्चैनां पतिदेवतां न खलु चेन्मच्चण्डतुण्डांकुश-
क्रूरावस्करणव्रणासृगुरसः पास्यन्ति गृध्रास्तव ७
जन्म ब्रह्मकुले हरार्चनविधौ कृत्वा शिरः कृन्तनं
शक्तिर्वज्रिणि घोरदण्डदलनव्यापारशक्तं मनः ।
हेलोल्लासितकेलिकन्दुकनिभः कैलास उत्पाटित-
स्तत्किं रावण लज्जसे न हरसे चौर्येण पत्नीं रघोः ८
मैनाकः किमयं रुणद्धि पुरतो मन्मार्गमव्याहतं
शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं
हा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ६
मा भैषीः पुत्रि सीते व्रजति मम पुरो नैष दूरं दुरात्मा
रे रे रक्षः क्व दारान्रघुकुलतिलकस्यापहृत्य प्रयासि
चंच्वाक्षेपप्रहारत्रुटितधमनिभिर्दिक्षु विक्षिप्यमाणै-
राशापालोपहारं दशभिरपि भृशं त्वच्छिरोभिः करोमि १०
अक्षं विक्षिपति ध्वजं दलयते मृगाति नद्धं युगं
चक्रं चूर्णयति क्षिणोति तुरगान् रक्षाः पतेः पक्षिराट् ।
रुन्धन्गर्जति तर्जयत्यभिभवत्यालम्बते ताडय-
त्याकर्षत्यवलुम्पति प्रचलति न्यञ्चन्युदंचत्यपि ११
क्रुद्धस्ततो दृढचपेटशिलातलेन
रक्षः पिपेष गहनेऽद्भुतपक्षिराजम् ।
ईषत्स्थितासुरपतद्भुवि राम राम
रामेतिमन्त्रमनिशं निगदन्मुमुक्षुः १२
न मैत्री निर्व्यूढा दशरथनृपे राज्यविषया
न वैदेही त्राता हठहरणतो राक्षसपतेः ।
22