This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
 
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[Hanuman Nātakam]
 
तत्तद्रत्नमयं किमत्र बहुना सर्वांगरम्यो मृगः २६
सांगं मायाकुरंगं द्रुतनिधननिशाचारिमारीचमग्रे
धावन्तं सञ्चरन्तं क्षणमपि गहने जानकी याचते स्म
रामं कामाभिरामं निशितशरधनुर्धारिणं लक्ष्मणेन
क्षिप्रं तद्रक्षणायोल्लिखिततटभुवा सोऽप्यगात्तद्वधाय २७
इति हनुमन्नाटके मारीचागमनं नाम तृतीयोऽङ्कः ३
 
चतुर्थोऽङ्कः
 
आन्दोलयन्विशिरखमेककरेण सार्धं
कोदण्डकाण्डमपरेण करेण धुन्वन्
सन्नह्य पुष्पलतया पटलं जटानां
रामो मृगं मृगयते वनवीथिकासु १
हस्ताभ्यां समुपैति लेढि च तृणं स्पृश्यतां गाहते
गुल्मान्प्राप्य निवर्तते किसलयानाघ्राय चाघ्राय च
भूयस्त्रस्यति पश्यति प्रतिदिशं कण्डूयते स्वां तनुं
दूरं धावति तिष्ठति प्रचलति प्रान्तेषु मायामृगः २
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम्
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्मा
पश्योद्विग्नप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्या प्रयाति ३
बाणेन दिव्येन रघप्रवीरस्ततो मृगं वक्षसि बर्द्धलक्ष्यः
विव्याध यावत्तरसा तपस्वी दशाननस्तावदिहाजगाम ४
मारीचमृगयाव्यग्रे रामे प्राप्ते च रावणे
 
भयादिव कुरङ्गीणामस्याः पश्यामि लोचने ५
 
स व्याहरद्धर्मिणि देहि भिक्षामलंघयँल्लक्ष्मणलक्ष्मलेखाम्
जग्राह तां पाणितले क्षिपन्तीमाकारयन्तीं रघुराजपुत्रौ ६
 
21