This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
उपलतनुरहल्या गौतमस्यैव शापा-
दियमपि मुनिपत्नी शापिता कापि वा स्यात् ।
चरणनलिनसङ्गानुग्रहं ते भजन्ती
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
भवतु चिरमियं नः श्रीमती पोतपुत्री २०
दृष्ट्वातिदैन्यं जनकात्मजायास्तत्रैव रामः सह लक्ष्मणेन
 
गोदावरीतीरसमाश्रितेषु वनेषु चक्रे निजपर्णशालाम् २१
एषा पंचवटी रघूत्तमकुटी यत्रास्मि पंचावटी
पान्थस्यैकघटी पुरस्कृततटी संश्लेषभित्तौ वटी
गोदा यत्र नटी तरङ्गिततटी कल्लोलचञ्चत्पुटी
दिव्यामोदकुटी भवाब्धिशकटी भूतक्रियादुष्कुटी २२
क्रीडाकल्पवटं विसर्पितजटं विश्वाम्बुजन्मावटं
पिष्टाण्डौघघटं धृतांघ्रिशकटं ध्वस्तक्षमासंकटम् ।
विद्युच्चारुरुचा विधूतकपटं सीताधरालम्पटं
भिन्नारीभघटं विरुग्णशकटं वन्दे गिरां दुर्घटम् २३
अथ मारीचः --
 
अतीतानागतवर्तमानत्रिकालदर्शनो
 
लंकापतेराज्ञामासाद्य चिन्तयामास ।
रामादपि च मर्तव्यं मर्तव्यं रावणादपि
उभयोर्यदि मर्तव्यं वरं रामो न रावणः २४
सुललितफलमूलैस्तत्र कालं कियन्तं
दशरथकुलदीपे सीतया लक्ष्मणेन
गमयति दशकण्ठोत्कण्ठितप्रेरितं द्रा-
क्कनकमयकुरंगं जानकी संददर्श २५
देहं हेममयं हरिन्मणिमयं शृंगद्वयं वैद्रुमा-
श्चत्वारोऽपि खुरा रदच्छदयुगं माणिक्यकांतिद्युति ।
नेत्रे नीलसुतारके सुवितते तद्वच्चलं प्रेक्षितं
 
20