This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
सुन्दस्त्रीदमनप्रमोदमुदितादास्थाय विद्योदयं
रामः सत्यवतीसुतादथ गतस्तस्याश्रमं लीलया ।
क्लृप्ते कौशिकनन्दनेन च मरखे तत्रागतान्राक्षसा-
न्हत्वाऽमूमुचदाशु भाविविदसौ मारीचमुग्राकृतिम् ७
पूर्णे यज्ञविधौ यियासुरभवद्रामेण सार्धं मुनिः
सीतासंवरणागताखिलनृपव्याभग्नवीर्यश्रियम् ।
श्रुत्वा तद्धनुरुत्सवं च मिथिलामास्थाय तेनाधिकं
सत्कारैरुपलम्भितः पुनरगाच्चापाश्रितं मण्डलम् ८
तदा सीता (आत्मगतम्) --
 
कमठपृष्ठकठोरमिदं धनुर्मधुरमूर्तिरसौ रघुनन्दनः
कथमधिज्यमनेन विधीयतामहह तात पणः स्तवदारुणः ६
रामो लक्ष्मणं प्रति--
आद्वीपात्परतोऽप्यमी नृपतयः सर्वे समभ्यागताः
कन्यायाः कलधौतकोमलरुचेः कीर्तेश्च लाभः परः ।
नाकृष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः
केनापीदमहो महद्धनुरिदं निर्वीरमुर्वीतलम् १०
 
लक्ष्मणो रामहृदयानन्दकंदाङ्कुरोद्भवाय निजप्रचण्ड-
दोर्दण्डयोर्महतीं प्रौढिं नाट्यति--
देव श्रीरघुनाथ किं बहुतया दासोऽस्मि ते लक्ष्मणो
मेर्वादीनपि भूधरान्न गणये जीर्णः पिनाकः कियान्
तन्मामादिश पश्य पश्य च बलं भृत्यस्य यत्कौतुकं
प्रोद्धर्तुं प्रतिनामितुं प्रचलितुं नेतुं निहन्तुं क्षमः ११
रावणपुरोहितो जनकं प्रति--
दातव्येयमवश्यमेव दुहिता कस्मैचिदेनामसौ
दोः क्रीडामशकीकृतत्रिभुवनो लंकापतिर्याचते
तत्किं मूढवदीक्षसे ननु कथागोष्ठीषु नः शासते
 
2