2023-03-20 00:00:35 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
[Hanuman Nātakam]
त्यज निज कठिनत्वं जानकी यात्यरण्यम् १४
पथि पथिकवधूभिः सादरं पृच्छ्यमाना
कुवलयदलनीलः कोऽयमार्ये तवेति
स्मितविकसितगण्डं व्रीडविभ्रान्तनेत्रं
मुखमवनमयन्ती स्पष्टमाचष्ट सीता १५
घुसृणमसृणपादा गम्मते भूः सदर्भा
विरचय शिवजातं मूर्ध्नि धर्मः कठोरः
इति ह जनकपुत्री लोचनैरश्रुगर्भैः
पथि पथिकवधूभिर्वीक्षिता शिक्षिता च १६
तत्र चित्रकूटे जानकी सकरुणं सवाष्पम्--
मूर्ध्ना बद्धजटेन वल्कलभृता देहेन पादानतिं
कुर्वाणे भरते तथा प्ररुदितं तारस्वरैः सीतया ।
येनोद्विग्नविहङ्गनिर्गततरुर्निः संमदःश्वापदः
शैलेन्द्रोऽपि किलैष भूरिभिरभूत्साश्रुः पयः प्रस्रवैः १७
तत्रैव सुमित्रा लक्ष्मणम्प्रति--
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्
अयोध्यामटवीं विद्धि गच्छ पुत्र यथासुखम् १८
पदकमलरजोभिर्मुक्तपाषाणदेहा-
मलभत यदहल्यां गौतमो धर्मपत्नीम्
त्वयि चरति विशीर्णग्रावविन्ध्याद्रिपादे
कति कति भवितारस्तापसा दारवन्तः १६
वैदेही अदृष्टराजमन्दिराद्बहिर्व्यवहारतया बालभावाच्च दैव-
योगात् नौकासुखमनुभूय वने चरन्ती स्थलेऽपि भारा-
क्रान्ता सती नौः प्रचरतीति मन्यमानास्माभिरतः परमन-
यैव सुखप्रयाणं कर्त्तव्यं न पद्भ्यामिति बुद्ध्या रामभधिकृ-
त्याब्रवीत् ॥
19