This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
मातस्तातः क्व यातः सुरपतिभुवनं हा कुतः पुत्रशोका-
त्कोऽसौ पुत्रश्चतुर्णां त्वमवरजतया यस्य जातः किमस्य ।
प्राप्तोऽसौ काननान्तं किमिति नृपगिरा किं तथासौ बभाषे
मद्वाग्बद्धः फलं ते किमिह तव धराधीशता हा हतोऽस्मि ८
गुरोर्गिरा राज्यमपास्य तूर्णं वनं जगामाथ रघुप्रवीरः
 
निषंगपृष्ठः शरचापहस्तस्तं लक्ष्मणो गामिव बालवत्सः ६
गुर्वाज्ञापरिपालनाय च वनं संप्रस्थितं राघवं
दृष्ट्वासौ त्वरिता विदेहतनया श्वश्रूजनं पृच्छति ।
नत्वा कोसलकन्यकांघ्रियुगलं पश्चात्सुमित्रां पुन-
र्दृष्ट्वा हा शुकसारिकापिककुलं रामानुगा प्रस्थिता १०
रामे प्राप्ते वनान्तं कथमपि भरतश्चेतनां प्राप्य तातं
नीत्वा देवेन्द्रलोकं मुनिजनवचनादूर्ध्वदेहक्रियाभिः
भ्रातुः शोकाज्जटावानजिनवृततनुः पालयामास नन्दि-
ग्रामे तिष्ठन्नयोध्यां रघुपतिपुनरागामिभोगाय वीरः ११
सद्यः पुरीपरिसरेषु शिरीषमृद्वी
 
गत्वा जवात्त्रिचतुराणि पदानि सीता
गन्तव्यमस्ति कियदित्यसकृब्रुवाणा
श्रुणः कृतवती प्रथमावतारम् १२
 
रामः
 
--
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
आदावेव कृशोदरी कुचतटीभारेण नम्रा पुन-
र्लीलाचंक्रमणं च नैव सहसे दोलाविधौ श्राम्यसि ।
स्रोतः काननगर्तन्किर्झरसरित्प्रायानपूर्वानिमा-
न्भूभागानपि भूतभैरवमृगान्वैदेहि यायाः कथम् १३
 
अरुणदलनलिन्या स्निग्धपादारविन्दा
कठिनतनुधरण्यां यात्यकस्मात्स्खलन्ती
अवनि तव सुतेयं पादविन्यासदेशे
 
18