This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[ Hanuman Nātakam]
 
तानुत्पातानवेक्ष्य क्षितिपमथ दशस्यन्दनं क्रन्दयन्ती
लोकाञ् शोकानलौघैः शिव शिव तरसा भस्मसात्कुर्वतीव ।
कैकेयी वाचमूचे निखिलनिजकुलाङ्गारमूर्त्तिः ससीतः
शान्त्यै पुत्रस्य राज्यं भवतु वनमभिप्रेष्यतामेष रामः ३
 
दशरथः सकरुणस्त्रीवचनस्वीकरणं मरणोत्साहं नाटयन्महतीं
मूर्च्छामासाद्य धरणीतलमुपगतः कथमपि चेतनामुपलभ्य --
रामं कामाग्रजमिव वनं प्रस्थितं वीक्ष्य शक्तो
 
धर्त्तं प्राणाञ् शिवशिव कथं तान्विहायाथ वाहम्
निर्मुक्तः स्यां वचनमनृतं तत्पुनर्नान्यथा मे
भूयाद्भूयस्तदनु वचनं हा बभाषे तथेति ४
रामभरतौ स्वं स्वं कालमधिगम्य हर्षशोकौ नाटयन्तौ गुरो-
र्गिरा जटावल्कलच्छत्रचामरधारिणौ वनप्रस्थानराज्याभि-
षेकारम्भाय राजानं दशरथं नमस्कर्त्तुमवतरतः ।
 
तत्र भरतः
 
हा तात मातरहह ज्वलितानलो मां
कामं दहत्वशनिशैलकृपाणबाणः ।
मन्थन्तु तान्विसहते भरतः सलीलं
हा रामचन्द्रपदयोर्न पुनर्वियोगम् ५
मां बाधते नहि तथा गहनेषु वासो
राज्यारुचिर्जनकबान्धववत्सलस्य
रामानुजस्य भरतस्य यथा प्रियायाः
पादारविन्दगमनक्षतिरुत्पलाक्ष्याः ६
श्रुत्वा सुमन्त्रवचनेन सुतप्रयाणं
शापस्य तस्य च विचिन्त्य विपाकवेलाम्
हा राघवेति सकृदुचरितं नृपेरण
निश्वस्य दीर्घतरमुच्छ्वसितं न भूयः ७
 
17