This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
रामस्तथा त्रिभुवनेऽपि यथा न कोऽपि
रामां भुनक्ति बुभुजे न च भोक्ष्यतीशः २८
मृदुसुरभिसुवर्णस्फीतकक्षापुटोद्य-
ल्ललितभुजलतायाः संपुटालिङ्गितायाः ।
सुरतरसवशाया राघवस्य प्रियाया
हरति हृदयतापं कापि दिव्या स्तनश्रीः २६
आगामिदीर्घविरहश्चिरमाविरासी-
ज्ज्ञात्वैव रङ्गभवनेऽद्भुतकामकेलिः
श्रुत्वा तयोर्गिरमपूजयदोतुपत्नी-
मुद्गीर्णकर्णसरणां चरणायुधानाम् ३०
 
इति श्रीहनुमन्नाटके रामजानकीविलासो नाम द्वितीयोऽङ्कः २
 
तृतीयोऽङ्कः
 
भुक्त्वा भोगान्सुरंगान्कतिपयसमयं राघवो धर्मपत्न्या
सार्धं वर्धिष्णुकामः श्रवणमुनिपितुः प्राप हा शापकालम्
धत्ते तस्मिन्विवस्वान्मलिनकिरणतां हा महोत्पातहेतो-
रुल्कादण्डः प्रचण्डः प्रपतति नभसः कम्पते भूतधात्री १
दिग्भागो धूसरोऽभूदहनि बहुतरस्फारताराः स्फुरन्ति
स्वर्भानोर्भानवीयं ग्रहणमसमये रौधिरी बिन्दुवृष्टिः ।
मध्याह्नोर्ध्वास्यकोशश्वगणरुतमतिस्फीतफेरुप्रचारो
वारंवारं गभीरप्रलय इव महाकालचीत्कारघोरः २
कैकेयी--आत्मगतम्
 
प्राप्तः किल मद्दाग्बन्धकालस्तर्हि द्रुतं राजानं भरतराज्यं
प्रार्थयामि न खलु कालक्षेपः श्रेयसे (रहसि उपगम्य
प्रकाशं) राजन्नमङ्गलीरियं वधूर्यतोऽस्या आगमनमात्रेण
महोत्पाताः सम्भवन्तीति ।
 
16