This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
शालिनालापेन--
वाचां गुम्फेन रम्भाकरकमलदलोदारसञ्चारचञ्च-
त्तन्त्रीसंजातमञ्जुस्वरसरसतरोद्गारताराक्षरेण
प्रत्यग्रोन्निद्रनाकद्रुमकुसुमनवामोदसंवादमैत्री-
पात्रीभूतेन धात्रीं सुरभयति चरस्थावरां रामराज्ञी २२
अथ रामस्तामाह्लादयति--
अरण्यं सारङ्गैर्गिरिकुहरगर्भाश्च हरिभि-
र्दिशो दिमातङ्गैः श्रितमपि वनं पंकजवनैः ।
प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः
 
सतां माने म्लाने मरणमथवा दूरसरणम् २३
वक्त्रं वनान्ते सरसीरुहाणि भृङ्गाक्षमालां जगृहुर्जपाय
एगीदृशस्तेऽप्यवलोक्य वेणीमङ्गं भुजङ्गाधिपतिर्जुगोप २४
स्वर्णं सुवर्णं दहने स्वदेहं चिक्षेप कान्तिं तव दन्तपंक्तिम्
विलोक्य पूर्णं मणिबीजपूर्णं फलं विदीर्णं ननु दाडिमस्य २५
वदनममृतरश्मिं पश्य कान्ते तवोर्व्या-
मनिलतुलनदण्डेनास्य वार्धी विधाता ।
स्थितमतुलयदिन्दुः खेचरोऽभूल्लघुत्वा-
त्क्षिपति च परिपूर्त्यै तस्य तारा किमेताः २६
 
जानकी--सानन्दं सोत्कंठा च प्राणवल्लभमाह्लादयन्ती--
रमणचरणयुग्मं तावकं भावयित्वा
मधुरगिरमुदारं रामदासी ब्रवीमि ।
कृतमपि गुरु धात्राऽऽस्वाद्य निर्णीयतां मे ।
वदनममृतरश्मेर्मण्डलं वा प्रियेण २७
 
रामः--(सानन्दम्)
 
[Hanuman Nātakam]
 
सीतां मनोहरतरां गिरमुद्गिरन्ती-
मालिङ्ग्य तत्र बुभुजे परिपूर्णकामः
 
15