2023-03-20 00:00:34 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
शर इव कुसुमेषोरेष पुंखावशेषः १६
तत्रावसरे--
पृथुलजघनभारं मन्दमान्दोलयन्ती
मृदुचलदलकाग्रा प्रस्फुरत्कर्णपूरा
प्रकटितभुजमूला दर्शितस्तन्यलीला
प्रमद्रयति पतिं द्राग्जानकी व्याजनिद्रा १७
तामपि दूरस्थां मन्वानः--
तदनु जनकपुत्रीवक्त्रमालोक्य रामः
पुनरपि पुनरेवाघ्राय चुम्बन्न तृप्तः
स्तनतटभुजमूलोरः स्थलं रोमराजि-
मदनसदनमासीच्चुम्बितं पञ्चबाणः १८
श्रीरामपादाः --
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
निद्रालुस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधाव-
त्कंदर्पारब्धबाणव्यतिकरतरलाः कामिनो यामिनीषु
ताटंकोपान्तकान्तग्रथितमणिगणोद्गच्छदच्छप्रभाभि-
र्व्यक्ताङ्गास्तुङ्गकम्पा जघनगिरिदरीमाश्रयन्ते श्रयन्ते १६
जानकी प्रबुद्धा--
स्पृहयति च बिभेति प्रेमतो बालभावा-
न्मिलति सुरतसङ्गेऽप्यङ्गमाकुञ्चयन्ती ।
अहह नहि नहीति व्याजमप्यालपन्ती
स्मितमधुरकटाक्षैर्भावमाविष्करोति २०
निधुवनघनकेलिग्लानिभावं भजन्त्या
रमणरभसशंकातंकिचेतः प्रियायाः
अधरदशनसर्पत्सीत्कृताया धृतायाः
पिब पिब रसनां मे कामतो निर्विशंकम् २१
रामः सानन्दं जानकीवाग्विलासमुल्लासयति लालित्य-
14
इतिहास
ITIHĀSA
शर इव कुसुमेषोरेष पुंखावशेषः १६
तत्रावसरे--
पृथुलजघनभारं मन्दमान्दोलयन्ती
मृदुचलदलकाग्रा प्रस्फुरत्कर्णपूरा
प्रकटितभुजमूला दर्शितस्तन्यलीला
प्रमद्रयति पतिं द्राग्जानकी व्याजनिद्रा १७
तामपि दूरस्थां मन्वानः--
तदनु जनकपुत्रीवक्त्रमालोक्य रामः
पुनरपि पुनरेवाघ्राय चुम्बन्न तृप्तः
स्तनतटभुजमूलोरः स्थलं रोमराजि-
मदनसदनमासीच्चुम्बितं पञ्चबाणः १८
श्रीरामपादाः --
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
निद्रालुस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधाव-
त्कंदर्पारब्धबाणव्यतिकरतरलाः कामिनो यामिनीषु
ताटंकोपान्तकान्तग्रथितमणिगणोद्गच्छदच्छप्रभाभि-
र्व्यक्ताङ्गास्तुङ्गकम्पा जघनगिरिदरीमाश्रयन्ते श्रयन्ते १६
जानकी प्रबुद्धा--
स्पृहयति च बिभेति प्रेमतो बालभावा-
न्मिलति सुरतसङ्गेऽप्यङ्गमाकुञ्चयन्ती ।
अहह नहि नहीति व्याजमप्यालपन्ती
स्मितमधुरकटाक्षैर्भावमाविष्करोति २०
निधुवनघनकेलिग्लानिभावं भजन्त्या
रमणरभसशंकातंकिचेतः प्रियायाः
अधरदशनसर्पत्सीत्कृताया धृतायाः
पिब पिब रसनां मे कामतो निर्विशंकम् २१
रामः सानन्दं जानकीवाग्विलासमुल्लासयति लालित्य-
14