This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀṬAKAM
 
र्बाणैः किं मां प्रहरति शनैर्व्याहरन्ती जगाम १०
गाढंगाढं कमलमुकुलं पुण्डरीकाक्षवक्षः-
पीठं काठिन्यमपि कुचयोर्जानकी मानकीर्णा
पूर्णा कामैः शिथिलमनिलस्यागमायाचकार
नीतं स्फीतं सदयहृदयं स्वामिनालिङ्ग्य मत्वा ११
जानकीरामचन्द्रयोः-
[Hanuman Nātakam]
 
अन्योन्यं बाहुपाशग्रहणरसभराशीलिनोस्तत्र यूनो-
र्भूयोभूयः प्रभूताभिमतफलभुजोर्नन्दतोर्जात एषः
संसारो गर्भसारो नव इव मधुरालापिनोः कामिनोर्मां
गाढं चालिङ्ग्य गाढं स्वपिहि नहि नहीति च्युतो बाहुबन्धः
 
१२
 
वक्त्रे ततः फणिलतादलवीटिकां स्वे
विन्यस्य चन्दनघनावृतपूगगर्भाम्
रामोऽब्रवीदय गृहाण मुखेन बाले
तच्छद्मना तदधरं मधुरं प्रमातुम् १३
मन्दं मन्दं जनकतनया तां चतुर्धा विधाय
स्वैरं जह्ने तदधरमधु प्रेमतो मीलिताक्षी
मेने तस्यास्तदनु कवलान्धर्मकामार्थमोक्षान्
रामः कामं मधुरमधरं ब्रह्म पीत्वापि तस्याः १४
भाति स्म चित्तस्थितरामचन्द्रं सारुन्धती निर्गमशंकयेव
स्तनोपरि स्थापितपाणिपद्मा संजातनिद्रा सरसीरुहाक्षी १५
 
रामः -
 
तत्र मैथिलसुतोरः स्थलनिक्षिप्तयक्षकर्द्दमे
सानन्दपतितभ्रमरमालोक्य
 
मदनदहनशुष्यत्कान्तकान्ताकुचान्तर्हदि मलयजपंके गाढ-
बद्धाखिलाङ्घ्रिः । उपरि विततपक्षो लक्ष्यतेऽलिर्निमग्नः
 
13