2023-03-20 00:00:33 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
त्फुल्लत्कैरवकोशनिः सरदलिश्रेणी कृपाणं शशी ५
यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः
स्वैरं शीतकरः करं कमलिनीमालिङ्गितुं योजयन्
शीतस्पर्शमवाप्य संप्रति तया युक्ते मुखाम्भोरुहे
हास्येनैव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ६
कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदै -
रक्षालि स्फटिकान्तरैः किमघटि द्यावापृथिव्योर्वपुः ।
एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ
दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि ७
अमृतममृतरश्मेर्मण्डलस्यानुभूय
द्विजचतुरचकोर प्रीतिरङ्गारकेषु ।
प्रभवति भवदीया चेद्विधातुर्विधानं
तदिह पुनरपि स्यात्कोऽन्यथाकर्तुमीशः ८
चक्रक्रीडाकृतान्तस्तिमिरचयचमूस्फारसंहारचक्रं
कान्तासंहारसाक्षी गगनसरसि यो राजते राजहंसः
सम्भोगारम्भकुम्भः कुमुदवनवधूबोधनिद्रादरिद्रो
देवः क्षीरोदजन्मा जयति रतिपतेर्बाणनिर्वाणशाणः ६
इत्याकर्ण्य चन्द्रमण्डलशाणे शाणोत्ती रतिपर्बाणो
जानकीरामचन्द्रयोर्वक्षःस्थले निपतति, इति श्लोका-
भिप्रायमवगम्य निष्क्रान्तः सर्व प्रालिजनः । अत्रापि
तरुणरात्रौ शुकसारिकादीनां पक्षिणां मधुरस्वरैर्मदनोर्मिः
संसूचिता ॥
रामः
अङ्के कृत्वा जनकतनयां द्वारकोटेस्तलान्ता-
त्पर्यङ्काङ्के विपुलपुलकां राघवो नम्रवक्त्राम्
बाणान्पञ्च प्रवदति जनः पञ्चबाणोऽप्रमाणै-
12